कृतः । 'समूढः पुञ्जिते भुग्ने' इति विश्वः । कर्पूरस्य परागचूर्णं तद्वत्पाण्डुरम् । अत एव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया ।क्षणेषु ताण्डवोत्सवेषु । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्युभयत्राप्यमरः । उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्म येन तेन । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । भूत्या भस्मना सितेन । 'भूतिर्भस्मनि संपदि' इत्यमरः। शंभुना हरेण स्फुटा उपमा सादृश्यं यस्य तं स्फुटोपमम् । स्फुटशंभूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः 'अतुलोपमाभ्याम्-' इति निषेधात्सादृश्यवा- चित्वे तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यतः प्राग्लिखित्वा व्याचक्षते । तेषां पुंस्त्वावधारणात्प्राक् तेजःपिण्डमात्रस्य शंभूपमौचित्यं चिन्त्यम् ॥ ४ ॥
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥५॥
दधानमिति ॥ पुनः कीदृशम् । अम्भोरुहकेसरद्युतीः पद्मकिंजल्कप्रभापि- शङ्गीरित्यर्थः । जटा दधानम् , स्वयं तु शरच्चन्द्रमरीचिरिव रोचिर्यस्य तम् । धवल- मित्यर्थः । अत एव विपाकेन परिणामेन पिङ्गाः पिङ्गलास्तुहिनस्थल्यां तुषारभूमौ रोहन्तीति तुहिनस्थलीरुहः व्रततीततीर्लताव्यूहान् 'वल्ली तु व्रततिर्लता' इत्यमरः । दधानं धराधरेन्द्रो हिमवान् तुहिनस्थलीति लिङ्गान्नारदोपमानत्वाच्च तमिव स्थितम् ॥ ५॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥६॥
पिशङ्गेति ॥ पुनः कीदृशम् । मुञ्जस्तृणविशेषः तन्मयी मेखला मौञ्जी पिशङ्ग्या मौङ्ज्या युज्यत इति पिशङ्गमौञ्जीयुक् तम् । 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । 'स्त्रियाः पुंवत्-' (६।३।३४) इति पिशङ्गशब्दस्य पुंवद्भावः। अर्जुनच्छविं धवलकान्तिम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । अञ्जनद्युत्यञ्जनवर्ण एणाजिनं कृष्णमृगचर्म वसानमाच्छादयन्तम् । 'वस आच्छादने' इति धातोः शानच् । सुवर्ण- सूत्रेण कनकमेखलया आकलितं बद्धमधराम्बरमन्तरीयकं यस्यास्तां शितिवाससो नीलाम्बरस्य रामस्य तनुं विडम्बयन्तम् । अनुकुर्वाणमित्यर्थः । आर्थीयमुपमा ॥६॥
विहंगराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडितां गणैरिव ॥ ७ ॥
विहंगेति ॥ पुनः । विहंगराजाङ्गरुहैरिव गरुत्मल्लोमतुल्यैरायतैर्दीधैः। हिरण्यस्य विकारो हिरण्मयी । 'दाण्डिनायन-' (६।४।१७४) इत्यादिना मयटि यलोप- निपातः । तस्यामुया॑ रुहा रूढाः । इगुपधालक्षणः कप्रत्ययः । तासां वल्लीनां तन्तु- भिस्तत्तुल्यैः सूक्ष्मावयवैः । उपादानगुणात् । हिरण्मयैः कृतोपवीतं शोभार्थं कल्पित- यज्ञसूत्रं स्वयं हिमशुभ्रम् । अत एव घनान्ते शरदि तडितां गणैरुपलक्षितम् । 'तडित्सौदामनी विद्युत्' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं धनं मेघमिव स्थितम् ॥७॥
पाठा०-१ 'गुणैः'.
पाठा ०-१ 'गुणैः'.