पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
शिशुपालवधे

रुपलक्षितैः । 'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः । उन्मुखैरूर्ध्वमुखैस्तथा उत्कर्णमुन्नमितकर्णं यथा तथा उद्वाहिता ऊर्ध्वं प्रसारिता धीरा निश्चलाः कंधरा ग्रीवा येषां तैरग्रे पुरः तटे दत्तदृष्टिभिस्तुरंगमैरायताः प्रसारिताः कीर्णा विक्षिप्ता वालधयो यस्मिन्कर्मणि तद्यथा तथाऽतीर्यत अतारि । सरिदिति शेषः । कर्मणि लङि यक् । स्वभावोक्तिः ॥ ७३ ॥

 तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।
 शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥ ७४ ॥

 तीर्त्वेति ॥ नितान्तदुस्तरामतिमहत्तयात्यन्ताशक्यतरणां तां नदीं गरीयसीमतिदुस्तरां प्रतिज्ञामिव प्रतिज्ञावचनमिव जवेन वेगेनैव तीर्त्वा शृङ्गैर्विषाणैरपस्कीर्णा आलेखिता महत्यस्तटीभुवस्तीरप्रदेशा यैस्तेषाम् । 'अपाच्चतुष्पाच्छकुनिष्वालेखने' (६।१।१४२) इति किरतेः कात्पूर्वतः सुडागमः । ककुद्मतामुच्चैस्तरं नदितं नादः अशोभत । उपमासंकीर्णा स्वभावोक्तिः ॥ ७४ ॥

 सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरद्भिर्गवलासितद्युतिः।
 सिन्दूरितानेकपकंकणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥७५॥

 सीमन्त्यमानेति ॥ तरद्भिः यदुभूभृतां यादवभूपानां बलैः सैन्यैः सीमन्त्यमाना सीमन्तवती क्रियमाणा । सीमन्तवच्छब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्कर्मणि लटः शानजादेशः । णाविष्ठवद्भावाद्विन्मतोर्लुक् । गवलासितद्युतिः माहिषविषाणमेचकप्रभा । 'गवलं माहिषं शृङ्गम्' इत्यमरः । सिन्दूरिताः सिन्दूरवत्कृताः । सिन्दूरशब्दात् 'तत्करोति-' (ग०) इति ण्यन्तात्कर्मणि क्तः । णाविष्ठवद्भावाद्विन्मतोर्लुक् । तैरनेकपैर्द्विपैरेव कंकणैः शेखरैः अङ्किता चिह्निता । 'कंकणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तरङ्गिणी यमुना नदी आयता दीर्घा भुवो वेणिरिव बभौ इत्युत्प्रेक्षा ॥ ७५ ॥

 अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राघिमभिर्गरीयसः ।
 नाव्यं पयः केचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः॥७६॥

 अव्याहतेति ॥ अत्रोर्मीणां भुजानां विशेषणान्युभयविपरिणामेन योज्यानि । केचिज्जनाः नावा तार्यं नाव्यम् । 'नाव्यं त्रिलिङ्गं नौतार्ये' इत्यमरः । 'नौवयोधर्म-' (४।९।९१) इत्यादिना यत्प्रत्ययः । पयो जलं अव्याहतक्षिप्रगतैरप्रतिहतशीघ्रगमनैरनुज्झितो द्राघिमा दैर्घ्यं यस्तैः । अतिदीर्घैरित्यर्थः । समुच्छ्रितानुन्नतान् गरीयसो गुरुतरानूर्मीन्क्षिपद्भिरपाकुर्वद्भिरत एवापरैरूर्मिभिरिव स्थितैरित्युत्प्रेक्षा । भुजैर्बाहुभिरतारिषुस्तरन्ति स्म । तरेर्लुङि सिचि वृद्धिरिडागमश्च ॥ ७६ ॥

  विदलितमहाकूलामुक्ष्णां विषाणविघट्टनै-
   रलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः ।