पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०९
द्वादशः सर्गः ।

गङ्गासंबन्धिना ओघेन प्रवाहेण निर्भस्मितायाः निर्भस्मीकृतायाः शंभुकंधराया हरकण्ठस्य सवर्णं समानवर्णम् । कृष्णवर्णमित्यर्थः । कथं स्यात्, न स्यादेव। 'ज्योतिर्जनपद-' (६।३८५) इत्यादिना समानस्य सभावः । अन्यथा गङ्गौघस्य धावल्याद्धवलमेव स्यात् । तथा च ग्रावाप्लवनवाक्यवदागमोऽप्यन्यथा नेय इति कवेराशयः ॥ ६९॥

 अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला नितरां धृतायतिः ।
 सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥७०॥
         (कलापकम् ।)

 अभीति ॥ तमालवन्नीला कृष्णा नितरां धृतायतिरत्यन्तं कृतदैर्घ्या सा महापगा महानदी यमुना । जवेन गां भुवं क्रमितुमाक्रमितुमभ्युद्यतस्योद्युक्तस्य तस्य महतो बलाम्बुराशेः सेनासमुद्रस्य पुरोऽग्रे क्षणं सीमेव वेलेव बभावित्युत्प्रेक्षा। क्षणमिति क्षणमात्रनिरोधिकाभवत् । अनन्तरमेव तरणादिति भावः ॥७०॥

 लोलैररित्रैश्चरणैरिवाभितो जवाद्व्रजन्तीभिरसौ सरिज्जनैः ।
 नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥७१।।

 लोलैरिति ॥ अभितः उभयतो लोलैश्चलद्भिररित्रैः केनिपातकदण्डैः । 'क्षेपणी स्यादरित्रं केनिपातकः' इत्यमरः । चरणैः पादैरिवेत्युत्प्रेक्षा । जवाद्व्रजन्तीभिर्गच्छन्तीभिर्नौभिः साधनैरसौ सरिद्यमुना कर्म, प्लवेनोदिता नौवेगेनोत्पन्ना भ्रमी भ्रान्तिस्तस्या भयान्निमीलन्तीभिर्भयादक्षिनिमीलनं कुर्वतीभिर्ललनाभिरवलम्बितैर्जनैः कर्तृभिः परितः । सर्वतः । सर्वोभयार्थे वर्तमानाभ्यां पर्यभिभ्यां तसिल्विधानात् । प्रतेरे प्रतीर्णा ॥ ७१ ॥

 तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।
 सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥ ७२ ॥

 तत्पूर्वमिति ॥ द्विपाधिपा महागजाः पूर्वं प्रथमं अंसौ प्रमाणमस्यांसद्वयसमंसप्रमाणम् । तेषां तथोन्नतत्वादिति भावः । 'प्रमाणे द्वयसज्-' (५।२।३७) इति द्वयसच्प्रत्ययः । तत्तथा गम्भीरं पयो यमुनाजलं सहेला: सावज्ञाः परितो, जगाहिरे प्रविशन्ति स्म । ततः प्रवेशानन्तरं सद्योऽविलम्बेन अनारतमविच्छिन्नं स्रुतेन स्रवता स्वदानवारिणा स्वमदोदकेन प्रचुरीकृतं बहुलीकृतं तत्पयस्तेरुः तरन्ति स्म । अनातिगम्भीरस्याप्यम्भसोंऽसदघ्नत्वातिशयोक्त्या गजानामौन्नत्यं पुरस्तस्यैव तन्मदाम्बुसंभेदतात्पर्योक्त्या तेषां मदातिरेकश्च व्यज्यते ॥ ७२ ॥

 प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरंगमैरायतकीर्णवालधि ।
 उत्कर्णमुद्वाहितधीरकंधरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥ ७३ ॥

 प्रोथैरिति ॥ स्फुटशब्दं स्पष्टध्वानं यथा तथा स्फुरद्भिश्चलद्भिः प्रोथैर्घोणामि-

पाठा०-१ 'नौकावाहनदण्डैः'.