पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९९
द्वादशः सर्गः ।

प्रसादिनोऽनुग्रहशीलस्य । अन्यत्र प्रसादगुणयुक्तान् । 'प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते' इति अनुज्झितौ गोत्रसंविदौ कुलाचारौ येन तस्य । यादववंशोत्पन्नस्येत्यर्थः । अन्यत्र कुलनामनी यैस्तान् । वंशनामाङ्कितानित्यर्थः । 'संविद्युद्धे प्रतिज्ञायां संकेताचारनामसु' इति वैजयन्ती । एवंभूतस्योपेन्द्रस्य हरेर्गुणान् समुद्दिश्याधिकृत्य भूयसो बहुलान् श्लोकान् स्तुतिपद्यानि पुरोऽग्रे पठन्ति स्म । अत्रोपेन्द्रस्य तच्छ्लोकानां च वर्ण्यत्वेन प्रकृतानां श्लेषसाधर्म्यादौपम्यगम्यतायां श्लेषप्रतिभोत्थापिता केवलप्रकृतगोचरा तुल्ययोगिता । श्लेषश्च प्रकृतिषु प्रत्ययेषु नेति ॥३५॥

 निःशेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् ।
 ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः॥३६॥

 निःशेषमिति ॥ चलन्कल्पान्ते क्षुभितः समुद्रोऽपि जलैर्निःशेषमाक्रान्तमहीतलः सन् स्थितिं मर्यादां वेलालङ्घनलक्षणां समुज्झति त्यजति । केशवस्तु चलितोऽपि प्रस्थितोऽप्यवारितैरपरिमितैः सैन्यैः निःशेषमाक्रान्तमहीतलः सन् ग्रामेषु अव्यवस्थाममर्यादां अकरोत् किम् । नाकरोदेवेत्यर्थः । अनोपमानात् समुद्रादुपमेयस्य केशवस्य मर्यादानतिक्रमेणाधिक्यकथनाध्यतिरेकालंकारः । लक्षणं तूक्तम् ॥ ३६ ॥

 कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
 ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ॥३७॥

 कोशातकीति॥ कोशातकीपुष्पगुलुच्छकान्तिभिः पटोलीप्रसूनगुच्छसच्छायैः । स्मरपाण्डेररित्यर्थः । 'कोशातकी पटोली स्यात्' इति हलायुधः । मुखैरुपलक्षिताः विनिद्रं विकसितमत एवोल्बणं विपुलं बाणं नीलसैरेयपुष्पमिव चक्षुर्यासां ताः । 'नीली झिण्टी द्वयोर्बाणा' इत्यमरः । ग्रामेषु भवा ग्रामीणाः । 'ग्रामाद्यखञौ' (४।२।९४) इति खञ्प्रत्ययः । ताश्च वध्वः स्त्रियस्तं कृष्णम् । ग्रामान्तर्गामिनमिति भावः । जनैश्चमूचरैरलक्षिता । वृतिभिस्तिरोहिता इत्यर्थः । चिरं वृतीनां कण्टकशाखावरणानामुपर्युपरितनावकाशे व्यलोकयन् । उपमास्वभावोक्त्योः संकरः ॥ ३७॥

 गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
 ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसंकीर्तनभावितात्मनः ॥३८

 गोष्ठेष्विति ॥ स कृष्णो गावस्तिष्ठन्त्येष्विति गोष्ठानि गोस्थानानि । गोष्ठं गोस्थानकम्' इत्यमरः । 'सुपि स्थः' (३।२।४) इति कप्रत्ययः । 'अम्बाम्बगोभूमि-' (८।३।९७) इत्यादिना षत्वम् । गोष्ठीषु वार्तासु । 'गोष्ठी सभायामालापे' इति विश्वः । कृतानि मण्डलासनानि मण्डलाकारेणोपवेशनानि यैस्तान्मुहुः सनादं क्ष्वेलाट्टाट्टहासाचारावसहितं यथा तथोत्थाय वल्गत उत्प्लवमानान् कपिशं मद्यम् । 'कश्यं मद्यं च मैरेयं कपिशं कापिशायनम्' इति हलायुधः । पिपासतो मुहुर्मुहुः पातुमिच्छतः । पिबतेः सन्नन्ताल्लटः शतरि शप् । स्वगोत्रसंकीर्तने स्वनामसंकीर्तने भावितात्मनः प्रवर्तितचित्तान् । कृष्णनामानि गायत इत्यर्थः । ग्रामेषु भवान् ग्राम्यान् । घोषजनानित्यर्थः । 'ग्रामाद्यखञौ' (४।२।९४) इति

यप्रत्ययः । अपश्यदालोकितवान् । स्वभावोक्तिः ॥ ३८ ॥