पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
शिशुपालवधे

 अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
 दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥३२॥

 अध्यध्वमिति ॥ दक्षस्य भावो दाक्ष्यं कौशलं सद्यः फलदम् । कुतः, यद्यस्मादध्यध्वमध्वनि । विभक्त्यर्थेऽव्ययीभावः, 'अनश्च' (५।४।१०८) इति समासान्तोऽप्रत्ययः 'नस्तद्धिते' (६।४।१४४) इति टिलोपः । आरूढवतैवारुह्यैव स्थितेन । निष्ठेति रुहेः क्तवतुप्रत्ययः । जनं शनैः पश्चादागच्छन्तं स्वजनं प्रतीक्षमाणेन । केनचित्पुंसेति शेषः । मुहुर्धृतः स्थापितोऽपि दासेरयुवा तरुणोष्ट्रः । विशेषणसमासः। अग्रतो वनावलीश्चखाद । पुरः पिचुमर्दादिकं भक्षयन्नास्त इत्यर्थः। न हि कुशलो वृथा कालं यापयतीति भावः । अत्र दाक्ष्यसाफल्यस्य सामान्यस्य तद्विशेषेण दासेरककौशलेन समर्थनाद्विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥३२॥

 शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
 एकातपत्रा पृथिवीभृतां गणैरभूद्बहुच्छत्रतया पताकिनी ॥३३॥

 शौरेरिति ॥ शौरेः कृष्णस्य पताकिनी सेना । व्रीह्यादित्वादिनिः । प्रतापेन हरितेजसा उपनतैर्नम्रैः । विधेयैरित्यर्थः । अत एवेतस्ततः समागतैः पार्श्वदेशादागतैः प्रश्रयनम्रमूर्तिभिर्हरिसंनिधौ विनयनम्रविग्रहैः पृथिवीभृतां राज्ञां गणैर्हेतुना बहुच्छत्रतया असंख्यातातपत्रवत्तया निमित्तेन एकानि केवलान्यातपत्राणि यस्याः सा एकातपत्रा केवलातपत्रमय्यभूत् । आतपत्रातिरिक्तं न किंचिदलक्ष्यतेत्यर्थः । 'एके मुख्यान्यकेवलाः' इत्यमरः । बहुच्छत्राप्येकच्छत्रेति विरोधभासनाद्विरोधाभासोऽलंकारः ॥ ३३ ॥

 आगच्छतोऽनूचि गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः।
 दूरादपावर्तितभारवाहणाः पथोऽपसस्रुस्त्वरितं चमूचराः ॥ ३४ ॥

 आगच्छत इति ॥ अन्वञ्चतीत्यन्वङ् तस्मिन्ननूचि पृष्ठदेशे । 'ऋत्विग्-' (३।२।५९) इत्यादिनाऽञ्चेः क्विन्प्रत्ययः । आगच्छतो गजस्य घण्टयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः संभ्रान्तवधूकाश्चमूचराः दूरादेवापावर्तिता अपसारिता भारस्यान्नादेहिना भारवाहणा भारवाहिन उष्ट्रादयो यैस्ते तथा सन्तः । 'वाहनमाहितात्' (८।४।८) इति णत्वम् । वहेर्ण्यन्तात्कर्तरि ल्युट् । त्वरितं शीघ्रं पथो मार्गादपसस्रुरपजग्मुः । स्वभावोक्तिः ॥ ३४ ॥

 ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः ।
 श्लोकानुपेन्द्रस्य पुरःस्म भूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः३५

 ओजस्वीति ॥ बन्दिनः स्तुतिपाठकाः । 'बन्दिनः स्तुतिपाठकाः' इत्यमरः । ओजस्विवर्णस्य तेजस्विवर्णस्य क्षत्रजातेर्यदुज्ज्वलं वृत्तमुदग्रव्यापारः विजयाख्यं

तेन शालत इति ओजस्विवर्णोज्ज्वलवृत्तशाली तस्य, अन्यत्र ओजस्विवर्णैः समासभूयिष्ठाक्षरैरुज्ज्वलास्ते च ते वृत्तशालिनो वसन्ततिलकादिच्छन्दोविशेषशालिनश्च । 'वृत्तं चारित्रच्छन्दसोरपि' इति विश्वः । तान् प्रसादोऽस्यास्तीति प्रसादी तस्य