पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
एकादशः सर्गः ।

  सितकरवपुषासौ लक्ष्यते संप्रति द्यौ-
   र्विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ६३ ॥

 प्रविकसतीति ॥ द्योतितः प्रकाशितोऽशेषलोको येन तस्मिन् , दश शतानि येषां ते दशशतास्ते करा यस्याः सा दशशतकरा सहस्रकरा मूर्तिर्यस्य तस्मिन्दशशतकरमूर्तौ सूर्ये द्वितीयेऽक्षिणि चक्षुषीव चिराय प्रविकसति सति संप्रत्यसौ द्यौराकाशं स्त्री च गम्यते । विगलितकिरणेन निष्प्रकाशेन सितकरं शुभ्रकिरणं वपुर्यस्य तेन सितकरवपुषा चन्द्रेण व्यङ्गितं विकलीकृतमेकेक्षणमेकनेत्रं यस्याः सा व्यङ्गितैकेक्षणा काणेव लक्ष्यते । अत्र दिवः काणत्वमुत्प्रेक्ष्यते । तच्च काणत्वमक्षित्वेनाध्यवसितेन निष्काशितेन चन्द्रेणेति । तत्र 'येनाङ्गविकारः' (२।३।२०) इति तृतीया ॥ ६३ ॥

  कुमुदवनमपथि श्रीमदम्भोजषण्डं
   त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
  उदयमहिमरश्मिर्याति शीतांशुरस्तं
   हतविधिलसितानां ही विचित्रो विपाकः॥ ६४॥

 कुमुदेति ॥ कुमुदवनं अपगता श्रीर्यस्य तदपश्रि विगतशोभम् । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति ह्रस्वत्वम् । अम्भोजषण्डं श्रीमच्छोभायुक्तम् । उलूकः पेचको मुदं त्यजति । तस्य दिवाभीतत्वादिति भावः । चक्रवाकः प्रीतिमान् । रजनीविरहाभावत्वात्तस्येति भावः । अहिमरश्मिरुष्णांशुरुदयं याति । हिमांशुरिन्दुरस्तमदर्शनं याति । अस्तमित्यव्ययम् । कथमेतद्वैषम्यं तत्राह-हतेति । हतविधिलसितानां दुष्टदैवचेष्टितानां विपाकः परिपाकः तत्तत्प्राणिकर्मानुरूपफलदानप्रकार इति यावत् । विचित्रो विविधः । न त्वेकविध इत्यर्थः । हीति विस्मये । 'अहो ही च विस्मये' इत्यमरः । विधिविपाकवैचित्र्याज्जगद्वैचित्र्यं युज्यत इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६४ ॥

  क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्ता-
   दुपगतवति पाणिग्राहवद्दिग्वधूनाम् ।
  द्रुततरमुपयाति स्रंसमानांशुकोऽसा-
   वुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ॥६५॥

 क्षणमिति ॥ अतुहिनधाम्नि उष्णांशौ दिशो वध्व इवेत्युपमितसमासः । तासां दिग्वधूनां पाणिं गृह्णातीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । 'तत्र तस्येव' (५।१।११६) इति तत्रार्थे वतिः । क्षणं प्रोष्य प्रवासं कृत्वा । प्रपूर्वाद्वसधातोः क्त्वा । तस्य 'समासेऽनञ्पूर्वे क्त्वो ल्यप्' (७।१।३७) 'वचिस्वपि-’(६।१।१५) इत्यादिना संप्रसारणम् । भूयः पुनरपि पुरस्तात्पूर्वस्यां दिशि मार्गे चोपगतवत्यागतवति सति असौ चन्द्र उपपतिर्जार इव । 'जारस्तूपपतिः समौ' इत्यमरः । स्रंसमानांशुको गलद्रश्मिकः । शैषिकः कप्प्रत्ययः । स्रस्तवस्त्रश्च नीचैर्नम्रः सपश्चिमान्तेन पश्चिमदिक्कोणेन केनचिदपरद्वारेण द्रुततरमपयात्यपसरति ।

पाठा०-१ 'उदयति दिननाथो याति'.