पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७०
शिशुपालवधे

इति मातरिश्वा । 'श्वन्नुक्षन्-' (उ० १५७) इत्यादिना औणादिको निपातः । विविक्तैरमलैरनार्द्रैश्च मालतीनां जातीकुसुमानाम् । 'सुमना मालती जातिः' इत्यमरः । रजोभिः परागैः । करीषैरिवेति भावः । अवचूर्ण्यावध्वस्य । संयुज्येति भावः । ज्यलयत्युद्दीपयति । प्राभातिकमालतीवातस्पर्शात्पुनरुद्बुद्धो मदन इत्यर्थः ॥ १७ ॥

  अनिमिषमविरामा रागिणां सर्वरात्रं
   नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
  इदमुदवसितानामस्फुटालोकसंप-
   न्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १८ ॥

 अनिमिषमिति ॥ इदं पुरोवर्ति अस्फुटा सूर्यतेजोभिभवान्मन्दायमाना आलोकसंपत् प्रकाशसंपत्तिर्यस्य तत् , अन्यत्र निद्राभिभवादनुद्बुद्धविषयावधानशक्तिकं दीपस्येदं दैपमर्चिज्वाला । 'ज्वालाभासोनपुंस्यर्चिः' इत्यमरः । सर्वस्यां रात्राविति सर्वरात्रम् । 'पूर्वकाल-' (२।१।१४९) इत्यादिना समासः । 'अहःसर्व-' (५।४८७) इत्यादिना समासान्तः 'रात्राह्नाहाः पुंसि' (२।४।२९) इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । अविरामा अविच्छिन्नाः रागिणां कामिनां, कामिनीनां च । 'पुमान्स्त्रिया' (१।२।६७) इत्येकशेषः । नवा निधुवनलीलाः सुरतविलासान् । 'व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सः' इति कोशः । कौतुकेन न निमिषतीत्यनिमिषं यथा तथा । पचाद्यच् । कुटादित्वान्न गुणः । अतिवीक्ष्य अत एव सनिद्रमुदवसितानां गृहाणां संबन्धि । 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम्' इत्यमरः । नयनमिवेत्युत्प्रेक्षा । घूर्णते भ्रमति ॥ १८ ॥

  विकचकमलगन्धैरन्धयन्भृङ्गमालाः
   सुरभितमकरन्दं मन्दमावाति वातः।
  प्रमदमदनमाद्यद्यौवनोद्दामरामा-
   रमणरभसखेदस्वेदविच्छेददक्षः॥ १९ ॥

 विकचेति ॥ प्रमदमदनाभ्यां हर्षमन्मथाभ्यां माद्यन्तीनां यौवनेनोद्दामानां च रामाणां स्त्रीणां रमणरभसखेदेन सुरतसंरम्भश्रमेण यः स्वेदस्तस्य छेदे हरणे दक्षो वातः प्रभातमारुतः विकचकमलगन्धैर्भृङ्गमाला अन्धयन्नन्धाः कुर्वन् मोहयन् । अन्धयतेः 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः। सुरभितः सुरभीकृतो मकरन्दो यस्मिन्कर्मणि तद्यथा तथा मन्दमावाति प्रचलति । अत्र वृत्यनुप्रासोऽलंकारः । 'श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥' इति आचार्योक्ता दश गुणाः प्रायेणात्र संभवन्तीति निपुणैरुन्नेयाः ॥ १९॥

  लुलितनयनताराः क्षामवक्रेन्दुबिम्बा
   रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।