सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
शिशुपालवधे

स्त्रस्तं दुकूलं नापश्यत् । अत्र दृष्टितिरस्कारस्य विशेषणगत्या अदर्शनहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च दृष्टेः स्तनतिरस्कारासंबन्धेऽपि संबन्धरूपातिशयोक्त्युत्थापितमिति संकरः । तेन च कुचयोर्लोकोत्तरसौन्दर्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ७३ ॥

 आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
 त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥७॥

 आहतमिति ॥ तरुण्याः संबन्धिना कुचतटेनाहतमाहतिरमुना उरसा साधु सोढमिति हेतोस्त्रुट्यतः शीर्यमाणाद्धारान्मौक्तिकवृष्टिः पुष्पवृष्टिरिव प्रियतमोरसि पपातेत्युत्प्रेक्षा । विक्रान्तः पूज्यते पुष्पवृष्ट्येति प्रसिद्धिः ॥ ७ ॥

 सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
 हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ ७ ॥

 सीत्कृतानीति ॥ तरुण्याः सीत्कृतानि सीत्काराः । दन्तनिष्पीडनायां सीरिति शब्दप्रयोगः । मणितं रतिकाले स्त्रीणां कण्ठकूजितविशेषः । 'मणितं रतिकूजितम्' इत्यभिधानात् । करुणोक्तिः त्रायस्वेत्यादिदीनोक्तिः । स्निग्धं स्नेहार्द्रमुक्तमुक्तिः । त्वं मे प्राणा इति प्रियवाद इत्यर्थः । अलमर्थानि निषेधार्थानि वचांसि मा मेत्यादिनिवारणवचनानि । हासानां भूषणानां च रवाः स्वनाश्च कामसूत्रस्य वात्स्यायनादिकामतन्त्रप्रतिपादकशास्त्रस्य पदतां पद्यत इति पदमर्थः । प्रमेयलक्षणमिति यावत् । तत्तामुपजग्मुरिति गम्योत्प्रेक्षा । यद्वा कामेनैव कृतं सूत्रं तस्य पदानि सुप्तिङन्तशब्दरूपाणि तस्य शास्त्रस्यैतान्येव पदानि तत्ता- मुपजग्मुरित्युत्प्रेक्षैव ॥ ७५ ॥

 उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः ।
 श्रूयते स मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ ७६ ॥

 उद्धतैरिति ॥ निभृतमनुद्धतम् । सूक्ष्ममित्यर्थः । एकमेकाकि छेदवद्विच्छेदयुक्तम् । मृगदृशां मणितं रतिकूजितं उद्धतैः स्थूलैरनेकैर्बहुभिरविरामैरविच्छेदैः कलैरव्यक्तमधुरैः काञ्चीनां नूपुराणां च धनिभिरक्षतमतिरस्कृतमेव श्रूयते स्म श्रुतम् । मणितस्य तिरोधायकशब्दान्तरसद्भावेऽपि ताद्रूप्यानापत्तेरतद्गुणालंकारः । 'सति हेतावतद्रूपस्वीकारः स्यादतद्गुणः' इति लक्षणात् ॥ ७६ ॥

 ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु ।
 क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम् ॥७७॥

 ईदृशस्येति ॥ रतेषु उर्व्यां क्षिप्तं रतिसंभ्रमात्पतितम् आयतं दीर्घभूतं काञ्चिदाम रसनागुणः कर्तृ ईदृशस्येति काञ्चिदाम्नः स्वायामदृष्टान्तेन जघनपरिमाणप्रदेशेनेत्थं महत्तरस्यातिमहतस्तव जघनस्य रतेषूपरिसुरतेषु मुहुः कथमेतल्लाघवं मुहुरुत्पतनपाटवं यस्येत्थमायतमहमपि एकवेष्टनपर्याप्तमिति भावः ।