सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५७
दशमः सर्गः ।

ख्योऽनुभावो द्रष्टव्यः । 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥' इति लक्षणात् ॥ ६९ ॥

 वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
 कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ ७० ॥

 वारणार्थेति ॥ ईर्ष्य॑या अतिपीडनासहिष्णुतया, अपत्रपया च रहस्यप्रकाशनवैलक्ष्येण च मुहुर्वारणार्थपदेषु मा मेत्यादिनिषेधवाचकशब्दप्रयोगेषु गद्गदवाचा स्खलद्गिरां सुदृशां प्रतिकूलं वर्तन्त इति प्रातिकूलिकाः प्रतिकूलचारिणः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' (४।४।२८) इति ठक् । तत्तया प्रातिकूलिकतयैव प्रतिकूलाचरणेनैव युवानोऽनुकूलमिष्टं कुर्वते स्म । कृत्रिमनिवारणाद्यत्प्रतिकूलमिवाचरितमधरपीडनादिकं तत्तासामिष्टत्वादनुकूलसेवेति । प्रतिकूलाचरणमेवानुकूलं भवतीत्यर्थः । अत एव प्रतिकूलमप्यनुकूलमिति विरोधाभासोऽलंकारः ॥ ७० ॥

 अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
 धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ ७१ ॥

 अन्येति ॥ अजस्रं नित्यमन्यकालपरिहार्यं सुरतेतरकाले तु त्याज्यं तद्द्वयं कर्म द्वयेन कर्त्रा विदधे विहितमेव । धाञः कर्मणि लिट् । एतदेव व्यनक्ति । रहसि ताभिरबलाभिर्भर्तृषु विषये धृष्टता विदधे । इतरैर्भर्तृभिरबलासु स्त्रीषु निर्दयत्वं च विदधे । अन्यदा यथा पुंसां स्त्रीषु दया तासां तेष्वप्रागल्भ्यमलंकारस्तद्वत् सुरतेषु तद्विरुद्धमेवालंकार इति भावः । अत्र स्त्रीपुंसधार्ष्ट्यनिर्दयत्वयोः प्रकृतयोर्विधानक्रियायोगपद्यं गम्यत इति तुल्ययोगिताभेदः ॥ ७१ ॥

 बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः ।
 बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥७२॥

 बाह्विति ॥ तरुणीनां तनौ शेते इति तनुशयस्तनुषु सुप्तः । 'अधिकरणे शेतेः' (३।२।१५) इत्यच् प्रत्ययः । विषमेषुः कामः बाहुपीडनं निर्दयाश्लेषः, कचग्रहणं केशाकर्षणं ताभ्यामाहतेन मुष्टिघातेन । नपुंसके भावे क्तः । नखानां दन्तानां च निपातैः क्षतैश्च बोधितः सन् विशदं निर्जाड्यं यथा तथा उन्मिमीलोद्बुद्धः । सर्वमेतत्कामस्योद्दीपकमासीदित्यर्थः । अत्र प्रकृतविषमेषुविशेषणसामर्थ्यादप्रस्तुतसुप्तप्रबुद्धपुरुषप्रतीतेः समासोक्तिरलंकारः । एवमेव प्रबोध्यते खलु निद्रालुरित्यलौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ॥ ७२ ॥

 कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
 संहतस्तनतिरस्कृतदृष्टिभ्रष्टमेव न दुकूलमपश्यत् ॥ ७३ ॥

 कान्तयेति ॥ कान्तया सपदि वस्त्राकर्षणक्षण एवोपगूढ आश्लिष्टः कोऽपि युवा कामी प्रौढपाणिर्व्यग्रहस्तः सन् अपनेतुं दुकूलमाक्रष्टुमियेष । संहताभ्यां

निरन्तरश्लिष्टाभ्यां स्तनाभ्यां तिरस्कृतदृष्टिस्तिरोहिताक्षः सन् भ्रष्टमेव प्रागेव