पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
दशमः सर्गः ।

द्वेगात् । यथा भारवेः प्रयोगः 'शुचि भूषयती'त्यादौ (किरातार्जुनीये २।३२) श्लोके 'स नयाङ्कः स च सिद्धिभूषणः' इति वक्तव्ये 'स नयापादितसिद्धिभूषणः' इति । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वादेकावली । 'यत्रोत्तरोत्तरेषां स्यात् पूर्वपूर्वं प्रति क्रमात् । विशेषकत्वकथनमसावेकावली मता ॥' इति लक्षणात् ॥३३॥

 क्षीबतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
 अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ ३४ ॥

 क्षीबतामिति ॥ क्षीबतां मत्तताम् । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । 'क्षीबृ मदे' इत्यस्माद्धातोः 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' (८।२।५५) इति निष्ठान्तो निपातितः । उपगतासु प्राप्तासु । अत एवानुवेलं प्रतिक्षणं रोषपरितोषवतीषु तासु स्त्रीषु विषये अनङ्गः सशरं धनुरग्रहीन्नु, उज्झितनिषङ्गं त्यक्ततूणीरं यथा तथोज्झामास नु तत्याज किम् । उज्झतेर्लिट् 'इजादेव गुरुमतोऽनृच्छः' (३।१।३६) इत्याम्प्रत्ययः । रुष्टासु धनुर्ग्रहणं परितुष्टासु त्यागश्च रोषपरितोषाभ्यामुत्प्रेक्ष्यते । अन्यथा रोषानन्तरं परितोषः परितोषानन्तरं रोषश्च न स्यादिति भावः । रोषपरितोषयोर्धनुर्ग्रहणाग्रहणाभ्यां यथासंख्येनान्वयाद्यथासंख्यालंकारभेदः । तेनोत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः ॥ ३४ ॥

 शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
 न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः ॥३५॥

 शङ्कयेति ॥ वनिताभिरन्ययुवतौ सपत्न्यां शङ्कया तत्सङ्गशङ्कामात्रेण दयितः स्फुटमेव निश्चितवदेव प्रत्यभेदि । सिद्धवत्कृत्वोद्घाटित इत्यर्थः । अनुचितोऽयमविमृश्य मिथ्याभियोग इति शङ्कां परिहरति-नेति । मत्सरेण वैरेण हता संवृतिर्गोप्यगोपनं यस्य तच्चेतस्तत्त्वविचारे भूतार्थचिन्तायां क्षमं सहिष्णु न भवति । मत्सरग्रस्तचेतसामेष स्वभाव इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३५॥

 आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
 आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥३६॥

 आननैरिति ॥ वल्लभानभि । वल्लभसमक्षमित्यर्थः । 'अभिरभागे' (१।४।९१) इति लक्षणार्थकर्मप्रवचनीयत्वाद्द्वितीया । वधूनामाननैर्विचकसे विकसितम् । भावे लिट् । तनूभिरङ्गैर्हषिताभिः पुलकिताभिः । 'हृषेर्लोमसु' (७।२।२९) इतीडागमः । अभावि भूतम् । भावे लुङ् । हृदयं चार्द्रतामाप । काठिन्यं जहावित्यर्थः । वचनेषु रोषो लोलति चलति स्म । वचनगतो रोषो वक्रतापि निवृत्तेत्यर्थः । अत्र वधूष्वाननविकासाद्यनेकक्रियायौगपद्यात्समुच्चयालंकारः । 'गुणक्रियायौगपद्यं समुच्चयः' इति लक्षणात् ॥ ३६ ॥

 रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
 चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ ३७॥