सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
शिशुपालवधे

जानती अनुनिन्ये । सापराधाहं क्षमस्वेति प्रार्थितवती । मत्तेषु किं न संभावितमिति भावः । एषा कलहान्तरिता ॥ २९॥

 कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् ।
 ईर्ष्ययेव हरता ह्रिअयमासां तद्गुणः स्वयमकारि मदेन ॥ ३०॥

 कुर्वतेति ॥ मुकुलिताक्षियुगानामवसादितवाचां कुण्ठितगिरामासां स्त्रीणां अङ्गसादं अङ्गसादरूपशरीरनिश्चेष्टतां कुर्वता ह्रियं हरता मदेन ईर्ष्ययेवेत्युत्प्रेक्षा । तस्या ह्रियो गुणस्तद्गुणः अक्षिनिमीलनवाक्सादाङ्गसादरूपः । स्वयमकारि कृतः । ह्रीमदयोस्तुल्यानुभाविकत्वादिति भावः ॥ ३०॥

 गण्डभित्तिषु पुरा सदृशीषु व्याजि नाश्चितदृशां प्रतिमेन्दुः।
 पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥३१॥

 गण्डेति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः सदृशीषु स्वसमानवर्णास्वञ्चितदृशां सुदृशां गण्डभित्तिषु पुरा सुरापानात्पूर्वं न व्याञ्जि नाभेदि । तदेकतापत्त्या तद्विविक्ततया न गृहीत इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । विपूर्वादलेः कर्मणि लुङ् 'आडजादीनाम् (६।४।७२) इत्याडागमः । पश्चात् पानानन्तरं पानेन पानमदेन पाटलिता पाटलीकृता कान्तिर्यासां तासु गण्डभित्तिषु लोध्रचूर्णस्य लोध्रपरागस्य तिलकश्चित्रकम् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । तस्याकृतिरिवाकृतिर्यस्य स आसीत् । वैवर्ण्याद्विविक्त एवासीदित्यर्थः । तिलकाकृतिरिति निदर्शना पूर्वोक्तसामान्यसंसृष्टा ॥ ३१ ॥

 उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
 योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंषि वपूंषि ॥ ३२॥

 उद्धतैरिति ॥ उद्धतैर्दृप्तैरिव कुचकुम्भैः परसरसङ्गादन्योन्यसंघर्षादुभयत ईरितान्याकृष्टानि तथा विभ्रमातिशयं विलासविशेषं पुष्णन्ति तानि । 'नपुंसकस्य झलचः' (७।१।७२) इति मुमागमः । योषितां वपूंषि । पूर्ववन्नुमागमः । 'सान्तमहतः संयोगस्य' (६।४।१०) इति दीर्घ इति विशेषः । अतिमदेन जुघूर्णः भ्रेमुः । दृप्तसंघर्षस्तटस्थपीडाकरः । यथा वृषभकलहाद्वत्सपादभङ्ग इति भावः ॥ ३२॥

 चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
 तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥ ३३ ॥

 चारुतेति ॥ आसां योषितां वपुश्चारुता सौन्दर्यमभूषयत् । तां चारुतामनूननवयौवनयोगः संपूर्णयौवनसंपत्तिरभूषयत् । तं पुनर्नवयौवनयोगं तु मकरकेतनलक्ष्मीर्मदनसंपत्तिरभूषयत् । तां मकरकेतनलक्ष्मीं दयितसंगम एव भूषा यस्य स मदोऽभूषयत् । तां मदः तं च दयितसंगम इत्यर्थः । प्रक्रमानुसारात्तां

मदस्तमपि वल्लभसङ्ग इति प्रयोक्तव्ये विशेषणत्वेन प्रयोगो महाकवीनामनु-