पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
शिशुपालवधे

 शीतेति ॥ नीरैस्तोयैः आसेकादासेचनात् शीतार्तिं शीतव्यथां बलवत्सु उपेयुषेव प्राप्तवतेवेत्युत्प्रेक्षा । अत एव शिशिरसमीरकम्पितेन शीतवातवेपितेन नवांशुकेन कर्त्रा अभिनवो यो यौवनोष्मा उष्णत्वं तद्भाजोः रामाणां स्तनतट, योराधारयोराश्लेषि आश्लिष्टं संसक्तम् । भावे लुङ् । सेकहेतुकस्यांशुकश्लेषस्य शीतार्तिहेतुकत्वमुप्रेक्ष्यत इति गुणहेतूत्प्रेक्षा ॥ ६२ ॥

 इत्थमासां जलक्रीडामुक्त्वा जलादुत्तरणं वर्णयति-

  श्च्योतद्भिः समधिकमात्तमङ्गसङ्गा-
   ल्लावण्यं तनुमदिवाम्बु वाससोऽन्तैः ।
  उत्तेरे तरलतरङ्गरङ्गलीला-
   निष्णातैरथ सरसः प्रियासमूहैः ॥ ६३ ॥

 श्योतद्भिरिति ॥ अथ जलक्रीडानन्तरम् , अङ्गसङ्गाद्गात्रसंपर्कात् , आत्तमु. पात्तम् । संसक्तमिति यावत् । समधिकमतिरिक्तं तनुमन्मूर्तिमत् लावण्यमिव कान्तिसारमिवेत्युत्प्रेक्षा । अम्बु श्च्योतद्भिः क्षरद्भिः । भौवादिकत्वाल्लघूपधगुणः । तरलाश्चपलास्तरङ्गा एव रङ्गा नृत्यस्थानानि तेषु लीला नर्तितानि तासु निष्णातैः कुशलैः । 'निनदीभ्यां स्नातेः कौशले' (८।३।८९) इति षत्वम् । वाससोऽन्तैर्व- स्त्रस्याञ्चलैरुपलक्षितैः प्रियासमूहैः स्त्रीसङ्घैः सरसो हृदादुत्तेरे उत्तीर्णम् । निर्गत- मित्यर्थः । तरतेर्भावे लिट् ॥ ६३ ॥

  दिव्यानामपि कृतविस्मयां पुरस्ता-
   दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
  उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्ती-
   मस्मार्षीज्जलनिधिमन्थनस्य शौरिः॥६४॥

 दिव्यानामिति ॥ दिवि भवा दिव्यास्तेषामपि कृतविस्मयां न्दर्यातिरेकेण जनिताद्भुतरसां स्फुरदरविन्दाभ्यां चारू हस्तौ यस्यास्ताम् । पद्महस्तामित्यर्थः । पुरस्तादग्रतः अम्भस्तो जलात् । पञ्चम्यास्तसिल् । उत्तरन्तीं निष्क्रामन्तीं कांचि- त्स्त्रियं मथ्यमानात् समुद्रात् सद्यः प्रादुर्भवन्तीं श्रियमिव लक्ष्मीमिवोद्वीक्ष्य जलनिधिमन्थनस्य । समुद्रमन्थनमित्यर्थः । मन्थेर्भौवादिकस्येदित्त्वान्नुमागमः अधीगर्थ-' (२।३।५२) इत्यादिना कर्मणि षष्ठी । अस्मार्षीत् स्मृतवान् । अत्र समुद्रमन्थनस्मारिकया श्रियमिवेत्युपमया सादृश्यात् श्रीः स्मृतेति स्मरणालंकार- प्रतीतेरलंकारध्वनिः ॥ ६४ ॥

  श्लक्ष्णं यत्परिहितमेतयोः किलान्त-
   र्धानार्थं तदुदकसेकसक्तमूर्वोः ।
  नारीणां विमलतरौ समुल्लसन्त्या
   भासान्तर्दधतुरुरू दुकूलमेव ॥ ६५ ॥

 श्लक्ष्णमिति ॥ एतयोरूर्वोरन्तर्धानार्थं किल छादनार्थं श्लक्ष्णं स्निग्धं यद्दुकूलं

परिहितमाच्छादितमुदकसेकेन संसक्तं संसृष्टं तत् दुकूलं कर्म । विमलतरौ नारीणा-