पर्याप्तम् । समग्रमासीदित्यर्थः । कुतः । फेनानां डिण्डीराणामुरसि रुहन्तीत्युर- सिरहाः स्तनाः । 'सुपि-' (३।२।४) इति योगविभागात्कप्रत्ययः 'हलदन्तात्-' (६॥३॥९) इत्यलुक् । तेषु हारलीला मुक्तावलिश्रीः । जातेति शेषः । शैवलानां जघनतलेषु चेलश्रीर्वसनशोभा जाता। गण्डेषु कपोलेषु शैवल इति विभक्तिविप- रिणामादनुषङ्गः। स्फुटरचना व्यक्तविन्यासाब्जपत्रवल्ली पद्मपत्रलता, जातेति शेषः । अत्र फेनानां हारलीलेव लीला शैवलानां चेलश्रीरिव श्रीरिति निदर्शनाभ्यां शैवलाः पत्रवल्लीति रूपकेण च वाक्यार्थैश्चतुर्थवाक्यार्थसमर्थनात् तैरेवाङ्गाङ्गि- भावेन संकीर्ण वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ५९ ॥
भ्रश्यद्भिर्जलमभि भूषणैर्वधूना-
मङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
निर्माल्यैरथ ननृतेऽवधीरिताना-
मप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ॥६०॥
भ्रश्यद्भिरिति ॥ वधूनामङ्गेभ्यो भ्रश्यद्भिः पतद्भिर्गुरुभिः सौवर्ण्याद्गुरुत्व- युक्तैर्भूषणैर्लज्जया भ्रंशप्रयुक्तया ह्रियेवेत्युत्प्रेक्षा । जलमभि अमज्जि जले मग्नम् । भावे लुङ् । अथानन्तरमेव न तु विलम्बेनेति भावः । निर्माल्यैर्मुक्तोज्झितमा- ल्यैर्ननृते जलेऽनर्ति । भ्रंशेऽपि निर्लज्जैरिति भावः । तथा हि-अवधीरितानां तिरस्कृतानामपि लघीयसां तुच्छानामुच्चैर्धार्ष्ट्यं निर्लज्जत्वमेवाधिकं भवतीत्यर्था- न्तरन्यासः । महान्तः पदभ्रंशे लज्जिताः क्वचिन्निलीयन्ते, तुच्छास्तु निर्लज्जा विजृ- म्भन्त इति भावः । अप्सु गुरूणि मज्जन्ति लघूनि प्लवन्त इति परमार्थः ॥ ६०॥
आमृष्टास्तिलकरुचः स्रजो निरस्ता
नीरक्तं वसनमपाकृतोऽङ्गरागः ।
कामः स्त्रीरनुशयवानिव स्वपक्ष-
व्याघातादिति सुतरां चकार चारूः॥६१ ॥
आमृष्टा इति ॥ तिलकरुचः पत्रशोभा आमृष्टाः । स्रजो माला निरस्ताः । वसनं कौसुम्भं वासो नीरक्तमरक्तम् । निरस्तरागमित्यर्थः । कृतमिति शेषः । अङ्गरागोऽपाकृतः । सर्वत्र जलैरित्यर्थः । इतीत्थं स्वपक्षव्याघातात् स्ववर्गक्षयात् अनुशयवाननुतापवानिवेत्युत्प्रेक्षा । कामः स्त्रीः स्त्रियः । 'वाम्शसोः' (६।४।८०) इतीयङादेशविकल्पात्पक्षे पूर्वसवर्णदीर्घः । सुतरां चारूः पूर्वतोऽपि रमणीया- श्चकार । स्त्रीणां काम एव भूषणमन्यद्वैरूप्यमेवेति भावः ॥ ६१ ॥
शीतार्तिं बलवदुपेयुषेव नीरै-
रासेकाच्छिशिरसमीरकम्पितेन ।
रामाणामभिनवयौवनोष्मभाजो-
राश्लेषि स्तनतटयोर्नवांशुकेन ॥ ६२ ॥