पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
शिशुपालवधे

चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । 'लवणो रसरक्षोब्धिभेदेषु लवणा त्विषि' इति विश्वः । यद्वा-'मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥' तस्य श्रीः संपत् तस्याः शेषमतिरिक्तम् । शरीरसंपदवशिष्टमिति यावत् । 'शेषः संकर्षणेऽनन्त उपयुक्तेतरेऽन्यवत्' इति विश्वः । तदिवावागलदपतत् । शेषमिति गुणनिमित्तजातिस्वरूपोत्प्रेक्षा ॥ ३४ ॥

  नियन्ती दृशमपरा निधाय पूर्णं
   मूर्तेन प्रणयरसेन वारिणेव ।
  कंदर्पप्रवणमनाः सखीसिसिक्षा-
   लक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ३५ ॥

 स्निह्यन्तीति ॥ कंदर्पप्रवणमनाः स्मरपरवशचित्ता अत एव दृशं निधाय पुंस्येव दृष्टिं कृत्वा स्निह्यन्ती । दृष्टिविशेषेण स्नेहं प्रकाशयन्तीत्यर्थः । अपरा स्त्री सख्याः सिसिक्षा सेक्तुमिच्छा तस्या लक्ष्येण व्याजेन बद्धाञ्जलिरेव तिष्ठन्ती न तु सिञ्चन्तीति द्योतनाय सिसिक्षेतीच्छायां सनः प्रयोगः । प्रतियुवं युवानं प्रति । 'अनश्च' (५।४।१०८) इत्यव्ययीभावे समासान्तः । मूतेन मूर्तिमता प्रणयरसेनेवेत्युत्प्रेक्षा । पाठादर्थस्य बलीयस्त्वादिवशब्दस्य व्यवहितेनान्वयः । वारिणा पूर्णमञ्जलिं चकार । प्रार्थयामासेत्यर्थः ॥ ३५ ॥

  आनन्दं दधति मुखे करोदकेन
   श्यामाया दयिततमेन सिच्यमाने ।
  ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प-
   स्वेदाम्बुस्नपितमजायतेतरस्याः ॥३६॥

 आनन्दमिति ॥ आनन्दं दधति प्रियसंभावनया हर्षं दधाने श्यामाया मध्यमयौवनायाः स्त्रियः । 'श्यामा यौवनमध्यस्था' इत्युत्पलः । मुखे वदने दयिततमेन अतिशयेन दयितः प्रियः । अतिशये तमप्प्रत्ययः । तेन का करोदकेनाञ्जलिजलेन सिच्यमाने सति ईर्ष्यन्त्या असहमानायाः । 'परोत्कर्षाक्षमेर्ष्या स्यात्' इति लक्षणात् । इतरस्याः सपत्न्या वदनमसिक्तमपि । प्रियेणेति शेषः । अनल्पेन स्वेदाम्बुना स्नपितं सिक्तमजायताभवत् । ईर्ष्याकृतकोपकार्यत्वात् स्वेदादीनामिति भावः। असिक्तमपि सिक्तमिति विरोधः । तस्य स्वेदाख्यकारणोक्तेराभासत्वम् ॥३६॥

  उद्वीक्ष्य प्रियकरकुड्मलापविद्धै-
   र्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
  अम्भोभिर्मुहुरसिचद्वधूरमर्षा-
   दात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥ ३७॥

 उद्वीक्ष्येति ॥ प्रियस्य करकुड्मलाभ्यां पाणिपुटाभ्यामपविद्धैः सिक्तैरम्भोभिरभिषिक्तम् । अन्यनार्याः सपत्न्या वक्षोजद्वयमुद्वीक्ष्य वधूर्नायिका अमर्षादीर्ष्या-