पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
शिशुपालवधे

गामिनी । इतःप्रभृति 'मदनरस-' (७।२३) इत्यतः प्राग्वक्ष्यमाणाः षण्नायिकाः स्वाधीनपतिका हृष्टाः प्रगल्भाश्चेत्यनुसंधेयम् ॥ १५ ॥

 अथापरस्या अपरं गतिविशेषं विशेषकेणाह-

 अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहि:स्तनेन ।
 हृषिततनुरुहा भुजेन भर्तुर्मृदुममृदु व्यतिविद्धमेकबाहुम् ॥१६॥

 अशिथिलमित्यादि ॥ अपरा स्त्री दृढं परिरब्धो गृहीतो बृहद्वहिःस्तनो येन तेन हृषितान्युदञ्चितानि तनुरूहि रोमाणि यस्य तेन । पुलकितेनेत्यर्थः । क्विब- न्तोत्तरपदो बहुव्रीहिः । 'हृषेर्लोमसु' (७।२।२९) इतीडागमः । भुजेन भर्तुर्वा- मबाहुना अमृदु गाढं यथा तथा व्यतिविद्धं व्यतिषञ्जितं मृदुं कोमलमेकबाहुं निजदक्षिणबाहुं भर्तुः कण्ठेऽशिथिलं दृढमवसज्यासज्य जगामेति भाविना संबध्यते ॥ १६ ॥

 मुहुरसुसममाघ्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
 विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरःस्थले निपीड्य ॥१७॥

 मुहुरिति ॥ पुनः किं कृत्वा । नितम्बमण्डलेन करणेन नितान्तमतिशयेन प्रणदिता प्रकर्षेण नदन्ती काञ्ची यस्मिन्कर्मणि तद्यथा तथा । 'उपसर्गादसमासे- ऽपि णोपदेशस्य' (८४१४) इति णत्वम् । मुहुरसुसमं प्राणेशमाघ्नती ताडयन्ती। हन्तेराङ्पूर्वाल्लटः शत्रादेशे ङीप् । सकर्मकत्वान्न 'आङो यमहनः' (१॥३॥२८) इत्यात्मनेपदम् । विषमिता विषमीकृता पृथुहारयष्टिर्यस्मिन्कर्मणि तद्यथा तथा इतरं पूर्वश्लोकोक्तबहिःस्तनादन्यम् । दक्षिणमित्यर्थः । कुचं तस्य भर्तुरुरःस्थले तिर्यङ् निपीड्य । पूर्ववत्संबन्धः ॥ १७ ॥

 गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
 इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥१८॥
         (विशेषकम् ।)

 गुरुतरेति ॥ पुनर्गुरुतरः सान्द्रतरः कलो मधुरश्च नूपुरस्यानुनादो ध्वनिर्य- स्मिन्कर्मणि तद्यथा तथा सललितं सलीलं नर्तितं व्यापारितं वामं सव्यं पादपद्मं यया सा इतरद्दक्षिणं पदमनतिलोलं भर्तृचरणस्खलनादनतिचपलं यथा तथा आद- धाना निक्षिपन्ती सती मन्मथेन मन्थरमलसं जगाम । एषा च पार्श्वगामिनी ॥१८॥

 अथान्यासामप्येकैकेन गतिविशेषमाह-

 लघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
 सकठिनकुचचूचुकप्रणोदं प्रियमवला सविलासमन्वियाय।।१९।।

 लघ्वित्यादि ॥ अन्या अबला स्त्री तस्य प्रियस्यांसौ पीठे इव तयोर्द्वये निहि- तावुभौ पाणिपल्लवी यया सा सती । 'उभादुदात्तो नित्यम्' (५।२।४४) इति पृथक्सूत्रकरणादेव सिद्धे पुनर्नित्यग्रहणसामर्थ्याद्वृत्तिविषये उभशब्दस्थानेऽप्युभय-

शब्दप्रयोगः । यथाह कैयटः । तत्र 'उभादुदात्तो नित्यम्' (५।२।४४)