शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः । |
शिशिरेति ॥ शिशिरमासमपास्यापहाय शीतं हरतीति शीतहरस्य । 'हरतेरनुद्यमनेऽच्' (३।२।९) इत्यच्प्रत्ययः । नोऽस्माकमस्य कुचोष्मणः कुचोष्णस्य क इव गुणः । किं फलं संपाद्यत इति शेषः । गम्यमानक्रियापेक्षया क्त्वानिर्देशः । इवशब्दो वाक्यालंकारे । इति धिया । अतोऽस्मिन् शिशिरमासे । सार्वविभक्तिकस्तसिः। प्रियाः कान्ता अस्तरुषो निरस्तरोषाः सत्यो नमतः प्रणताननुमतान् स्वप्रियान् घनं निबिडं परिरेभिर आश्लिष्टवत्यः । इति धियेति सुखार्थस्य परिरम्भस्य कुचोष्मसाफल्यार्थत्वमुत्प्रेक्ष्यते व्यञ्जकाप्रयोगाद्गम्यत्वं च ॥ ६५ ॥
अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः । |
अधीति ॥ लवङ्गेष्वधिलवङ्गम् । विभक्त्यर्थेऽव्ययीभावः । सुमनसां पुष्पाणां दलेषु तालयन्ति प्रतितिष्ठन्तीति सुमनोदलतालिनः । ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । अमी अलिनो मधुपाः रजसा परागेणार्तवेन चाधिकं मलिना मलीमसाः पापिनश्च कृता मलिनिता इति हेतोः पुरोऽग्रे सपदि कुन्दलता माध्यवल्ली। 'माध्यं कुन्दम्' इत्यमरः । दलता विकसता प्रसवेन निजकुसुमेनाहसज्जहास । स्फुटमित्युत्प्रेक्षायाम् । रजस्वलां गन्तारं कामिनं सपत्यो हसन्तीति भावः । कुन्दकुसुमस्य धावल्याद्धासत्वेनोत्प्रेक्षा ॥ इति शिशिरवर्णनम् ॥ ६६ ॥
अथ यमकविशेषकौतुकितया कविः पुनर्द्वादशभिर्ऋतून् वर्णयन्नाद्यैश्चतुर्भिर्वसन्तं वर्णयति-
अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव संतानकः । |
अतिसुरभिरिति ॥ अतिसुरभिरत्यन्तसुगन्धिः संतानकः कल्पवृक्षः पुष्पश्रियां पुष्पसंपदामतनुतरतया महत्तरत्वेन । अतनुशब्दात्तरबन्तात्तलप्रत्ययः । अभाजीवाभञ्जीवेत्युप्रेक्षा । तथा नम्र इत्यर्थः । 'भञ्जेश्च चिणि' (६।४।३३) इति विभाषा नलोपे उपधावृद्धिः । चिणो लुक् । किंच वसन्तस्यानको वसन्तानकः । दुन्दुभिरिति रूपकम् । तरुणपरभृतस्तरुणकोकिलो रागिणां कामिनां रतये रागवर्धनाय स्वनमतनुत । मधुरं चुकूजेत्यर्थः । प्रभावृत्तम् । 'स्वरशरविरतिननौ रौ प्रभा' इति लक्षणात् ॥ ६७ ॥
नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् । |
नोज्झितुमिति ॥ अरमत्यन्तमिष्टेष्वीप्सितेषु मधुषु मकरन्देषु वासे वसतौ रसो रागो यस्याः सा इष्टमधुवासरसा। मधुपानप्रियेत्यर्थः । अत एवालिनामालिर्भृङ्गश्रेणिर्युवतिमाननिरासे दक्षं कुशलम् । उद्दीपकत्वादिति भावः । मधुवास-