पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
षष्ठः सर्गः ।

दीर्घरात्रित्वाच्चोभयेच्छासदृशमरमन्तेत्यर्थः ॥ इति हेमन्तवर्णनम् ॥ ६१ ॥

 अथ शिशिरं वर्णयति-

कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुंकृतिः ।
उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ६२

 कुसुमयन्नित्यादिना ॥ उपवनम् । वन इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' (२।४।८४) इति विकल्पादम्भावः । फलिनीः प्रियङ्गुलताः । 'प्रियङ्गुः फलिनी फली' इत्यमरः । कुसुमयन् कुसुमवतीः कुर्वन् इत्युद्दीपनसामग्रीवर्णनम् । कुसुमयतेर्मत्वन्तप्रकृतिकात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । णाविष्टवद्भावे विन्मतोर्लुक् । मदविकासिभिर्मदेन विजृम्भमाणैरलिनीरवैः भृङ्गीहुंकारैराहितहुंकृतिः कृतहुंकारः । माधुर्याद्युद्दीपकत्वातिशयद्योतनार्थमलिनीति स्त्रीलिङ्गनिर्देशः । शिशिरानिलः प्रियान्वियुवतीः कोपाद्वियुञ्जानाः । यौतेः शतरि धातोरुवङादेशः, 'उगितश्च' (४।१।६) इति ङीप् । युवतीर्वधूः। 'यूनस्तिः' (४।१७७) इति तिप्रत्ययः । निरभर्त्सतातर्जयत । तर्जिभर्त्स्योश्चौरादिकयोरनुदात्तेत्वादात्मनेपदम् । अत्र वायौ अचेतने चेतनधर्मो निर्भर्त्सनमुत्प्रेक्ष्यते । सा चालिनीहुंकारझङ्काराज्जीवितेति रूपकसंकीर्णा व्यञ्जकाप्रयोगाद्गम्या च ॥ ६२ ॥

उपचितेषु परेष्वसमर्थतां व्रजति कालवशाहद्बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान हि महाहिमहानिकरोऽभवत् ६३

 उपचितेष्विति ॥ कालवशाद्बलवानपि परेषु शत्रुषूपचितेषु प्रवृद्धेषु सत्सु असमर्थतां दौर्बल्यं व्रजति । हि यस्मात्तपसि माघमासे । 'तपा माघे' इत्यमरः । मन्दगभस्तिर्मृदुरश्मिरभीषुमानंशुमान् । 'अभीषुः प्रग्रहे रश्मौ' इत्यमरः महत उपचितस्य हिमस्य हानिं नाशं करोतीति महाहिमहानिकरस्तद्धेतुर्नाभवत् । 'कुञो हेतु-' (३।२।२०) इत्यादिना हेत्वर्थे टप्रत्ययः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६३ ॥

अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुदभूद्दिशः ॥ ६४ ॥

 अभीति ॥ क्षुभित उद्धतो यः सैन्यपरागः सेनारजः स इव विपाण्डुरद्युतिः शुभ्रवर्णो यो लोध्ररजश्चयः भुवनान्यभिषिषेणयिषुं सेनयाभियातुमिच्छन्तम् । 'यत्सेनयाभिगमनमरौ तदभिषेणनम्' इत्यमरः । 'सत्यापपाश-' (३।१।२५) इत्यादिना सेनाशब्दाण्णिचि सनि 'सनाशंसभिक्ष उः' (३।२।१६८) इत्युप्रत्ययः। 'स्थादिष्वभ्यासेन-' (८।३।६४) इति धात्वभ्याससकारयोः षत्वम् । स्मरमाख्यतेव ख्यातवानित्युत्प्रेक्षा। चक्षिङः ख्याञ्। 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३।१।५२) इति च्लेरङादेशः । अयं लोध्ररजश्चयो दिशस्तिरयन् तिरस्कुर्वन् । तिरःशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । णाविष्ठवद्भावे टिलोपः । उदभूत् ॥ ६४ ॥