पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
शिशुपालवधे

इत्यर्थः । तासां दिशां निजरजः स्वपरागं पटवासं पिधानमिवेत्युत्प्रेक्षा । अकिरदक्षिपत् । सखीवदिति भावः ॥ ३७ ॥

प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ३८

 प्रणयेति ॥ प्रणयकोपभृतः अत एव पराङ्मुखा विमुखा अपि । 'स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्' (४।१।५४) इति विकल्पादाकारः । सपदि वारिधरारवेभ्यो गर्जितेभ्यो भीरवो भीताः । स्त्रिय इति शेषः । अथ अनन्तरं गर्जिताकर्णनानन्तरमेव प्रणयिनः प्रियान् परिरब्धुमालिङ्गितुं वलिरेचितान्यालिङ्गतानार्थमङ्गप्रसारणात्रिवलिरिक्तीकृतानि मध्यमान्यवलग्नानि यासां ताः सत्यो ववलिरे प्रवृत्ताः । वलतेर्वकारादित्वात् 'न शसददवादिगुणानाम्' (६।४।१२६) इत्येत्वाभ्यासलोपप्रतिषेधः ॥ ३८ ॥

विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभवति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ३९ ॥

 विगतेति ॥ पयोदनभस्वति मेघमारुते वाति वहति सति । वातेर्लटः शत्रादेशः । विगतरागगुणो विरक्तोऽपि को नरो न चलति । सर्वोऽपि चलत्येवेत्यर्थः । एवमलिभिरुच्चकैरुच्चैस्तरामनृतमसत्यं न भवतीत्यननृतं तस्मिन्नननृते सत्यवचनेऽभिहिते सति नवपल्लवैर्ननृत इव नृत्यं कृतमिवेत्युत्प्रेक्षा । नृतेर्भावे लिट् ॥ ३९ ॥

अरमयन् भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणीगणास्तमथ मन्मथमन्थरभाषिणः ॥ ४० ॥

 अरमयन्निति ॥ अचिरद्युतेर्विद्युतो भयात्किल भयादिव न तु तथा । किंतु रागादेवेति भावः । किलेत्यलोके । भवनाद्गणगृहादपयातुं निर्गन्तुमनिच्छवः । भयव्याजात्तत्रैव स्थिता इति भावः । 'विन्दुरिच्छुः' (३।२।१६९) इत्युप्रत्ययान्तो निपातः । मन्मथेन मन्थरमलसं भाषन्त इति मन्मथमन्थरभाषिणः । कामवशा इत्यर्थः। तरुणीगणास्तं प्रकृतं यदव एव नरेन्द्रास्तेषां गणमरमयन् रमयन्ति स्म । अत्र भयेन रागनिगूहनान्मीलनालंकारः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगृहनम्' इति लक्षणात् । सोऽप्यागन्तुकेन भयेन सहजरागतिरोधानादागन्तुकेन सहजतिरोधानरूपः ॥ इति वर्षावर्णनम् ॥ ४० ॥

 अथ शरद्वर्णनमारभते-

ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशामपरथाप रथावयवायुधः ॥ ४१ ॥

 ददतमिति ॥ रथावयवायुधश्चक्रायुधो हरिरन्तरिताहिमदीधितिं तिरोहितोष्णांशुं तथा खगकुलाय पक्षिसङ्घाय । कुलायेषु नीडेषु निलीयन्त इति कुलायनिलायिनः। 'कुलायो नीडमस्त्रियाम्' इत्यमरः । तेषां भावस्तत्ता तां ददतं प्रयच्छन्तम् । पक्षिसंचारं प्रतिबन्धन्तमित्यर्थः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुरप्रतिषेधः । दिशामिति कर्मणि षष्ठी । अबोधकृतमबोधकारिणम् । मेघावरणेन