शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । |
शमितेति ॥ अम्बुमुचो मेघाः प्रविरलैरम्भसां प्रथमबिन्दुभिः शमिततापमपोढमहीरजो निरस्तधूलिकम् । न तु पङ्कितमिति भावः । सुगन्धि संतप्तसेकादुद्भूतसौरभम् । इह तदेकान्तत्वाद्गन्धस्येत्वम् । अचलाङ्गनं रैवतकाङ्गनम् । 'अङ्गनं चत्वराजिरे' इत्यमरः । अङ्गनाजनस्य सुखेन गच्छत्यस्मिन्निति सुगम् । सुखसंचारमित्यर्थः । 'सुदुरोरधिकरणे' (वा०) इति गमेर्डप्रत्यये टिलोपः । न न चक्रिरे । चक्रिरे इत्यर्थः । द्वौ नजौ प्रकृतमर्थं गमयतः ॥ ३३ ॥
द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् । |
द्विरदेति ॥ द्विरददन्तवलक्षं गजदन्तधवलम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । भृङ्गो मृग इव भृङ्गमृगः तस्य छविः सा स्फुरिता यस्मिंस्तत्तथोक्तं केतक्याः पुष्पं केतकम् । 'पुष्पमूलेषु बहुलम्' (वा०) इत्यणो लुकि नादिवृद्धिः । 'लुक् तद्धितलुकि' (१।२।४९) इति स्त्रीप्रत्ययस्यापि लुक् । घनघनौघविघट्टनया निविडमेघसङ्घोपघातेन दिवोऽन्तरिक्षाच्च्युतं कृशशिखं सूक्ष्माग्रं शशिखण्डमिवालक्ष्यतेत्युत्प्रेक्षा ॥ ३४ ॥
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः । |
दलितेति ॥ दलितमौक्तिकानां निष्पिष्टमुक्ताफलानां चूर्ण इव विपाण्डवोऽतिशुभ्राः स्फुरिता ये निर्झराणां शीकराः कणास्त इव चारवः कुटजपुष्पपरागकणाः स्फुटं दधिरेणुविडम्बनां दधिचूर्णानुकारं विदधिरे चक्रिरे । तद्वद्वभुरित्यर्थः । पूर्वोपमानद्वयानुप्राणितेयमुपमेति संकरः ॥ ३५ ॥
नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः । |
नवेति ॥ नवपयःकणवन्नवोदकबिन्दुवत्कोमलानां मालतीकुसुमानां जातीपुष्पाणां संततिषु संततसङ्गिभिर्निरन्तरासक्तैः । 'सुमना मालती जातिः' इत्यमरः । अत एव प्रचलितोडुनिभैः परागभूषणात् संचरन्नक्षत्रकल्पैरिवेत्युत्प्रेक्षा । अलिभिः शुभाद्रजोभरात्परागपुञ्जाज्जातः शुभरजोभरजः परिपाण्डिमा धवलिमा आददे स्वीकृतः ॥ ३६॥
निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशाम् । |
निजेति ॥ प्रियवियुक्तवधूजनचेतसाम् । कर्मणि षष्ठी । अनवनी अरक्षणी । किंतु हन्त्रीत्यर्थः । अवतेः कर्तरि ल्युटि ङीप् । नवनीपवनावलिः नवकदम्बकाननपङ्क्तिः । धृताः पटोपमाः पटकल्पा वारिमुचो मेघा याभिस्ताः । मेघपटावृता