सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४९
षष्ठः सर्गः ।

त्राधैर्याच्चेति भावः । जगतीधरं रैवतकं भूधरं प्रियमिव समयात् समागच्छत् । यातेर्लङ् । पयोजगतीशब्दयोः पचाद्यजन्तेन धरशब्देन षष्ठीसमासः । अत्र विशे- षणमहिम्ना जलधरावलौ नायिकात्वप्रतीतेः समासोक्तिः, सा तु प्रियमिवेत्युपम- याङ्गेन संकीर्यते ॥ २५॥

 गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
 अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥२६॥

 गजेति ॥ नभसि श्रावणमासे । 'नभाः श्रावणिकश्च सः' इत्यमरः । अम्बरे ज्योम्नि गजकदम्बकमिव मेचकं श्यामलम् । 'कालश्यामलमेचकाः' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं नवाम्बुदं वीक्ष्य अङ्गना एक एकायनो रसो रागो यस्य तमेक- रसम् । तिरस्कृतरसान्तरमित्यर्थः । कं वल्लभं प्रियं रह एकान्ते न चकमे न काम- यते स्म तथा नाभिससार च । सर्ववल्लभं सर्वापि तत्तदङ्गना चकमे अभिससार चेति । नवाम्बुदस्योद्दीपकत्वादतिशयोक्तिः । इह कामनापूर्वकत्वादभिसरणस्य तयोरर्थक्रमबलीयस्वन्यायेन यमकवशायातपाठक्रमबाधेन योजना न्याय्यैव ॥२६॥

 अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
 धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥२७॥

 अनुययाविति ॥ धृतधनुर्वलयस्य तेन्द्रचापमण्डलस्य पयोमुचो मेघस्य संबन्धी शबलस्य भावः शबलिमा विचित्रता । 'पृथ्वादिभ्य इमनिज्वा' (५।1। १२२)। विविधा नानावर्णा उपला मणयो ययोस्तयोः कुण्डलयोर्द्युतिवितानकेन कान्तिपुञ्जेन संवलिता मिलिता अंशवो निजनीलभासो यस्य तत्तथोक्तम् । 'शेषाद्विभाषा' (५।४।१५४) इति कप्प्रत्ययः । बलिमानमुषो बल्यसुराहंकाराप- हारकस्य हरेर्वपुरनुययावनुचकार । तद्वद्धभावित्यर्थः । उपमालंकारः ॥२७॥

 द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
 नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ २८ ॥

 द्रुतेति ॥ द्रुतसमीरेण शीघ्रमारुतेन चलैर्वारिदैः क्षणं लक्षिता च व्यवहिता च सा क्षणलक्षितव्यवहिता । क्षणिकाविर्भावतिरोधानेत्यर्थः । स्नातानुलिप्तवत् 'पूर्वकालैक-' (२॥१॥४९) इत्यादिना समासः । अचिरं रोचिर्यस्याः सा अचि- ररोचिर्विद्युत् द्रुतसमीरचलैर्विटपैः शाखाभिः क्षणलक्षितव्यवहिता नवतमालनि- भस्य नवतमालेन सदृशस्य । तद्वन्नीलस्येत्यर्थः । नित्यसमासः । नभस्तरुरिव तस्य नभस्तरोर्मञ्जरी गुच्छ इवारोचत । उपमालंकारः । अत्र नभस्तरोर्नभःश्रेष्ठस्येति व्याख्याने तरुशब्दस्य व्याघ्रादिवच्छ्रेष्ठार्थगोचरत्वात्तमालशब्देन विशेषवाचिना तन्नीलसामान्येन पौनरुक्त्यमिति वल्लभः । तमालशब्दस्येन्द्रनीलवन्नैल्यमात्रोपमा- नत्वात्तरुशब्दस्य स्वार्थवृत्तित्वेऽपि न पौनरुक्त्यमित्यन्ये ॥ २८॥

 पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
 सनयनाम्बुसखीजनसंभ्रमाद्विधुरवन्धुरवन्धुरमैक्षत ॥ २९ ॥