पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
शिशुपालवधे

 अथ ग्रीष्मवर्णनमारभते-

 रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
 उपययौ विदधनवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥२२॥

 रवीत्यादि ॥ यत्र शुचौ शिरीषरजसा रुचः कान्तयो रवितुरङ्गतनूरुहतुल्यतां सूर्याश्वरोमसावण्यं दधति । हरिद्वर्णा भवन्तीत्यर्थः । असौ शुचिर्ग्रीष्मः । 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोस्तथा । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः । नवम- ल्लिकाः । 'पुष्पे जातीप्रभृतयः स्वलिङ्गाः' इत्यमरः । 'पुष्पमूलेषु बहुलम्' (वा०) इति बहुलग्रहणाल्लुप् । लुपि युक्तवद्व्यक्तिवचने भवतः । चिरं चिरावस्था- यिनी सौरभसंपत् यासां ताः। स्थिरगन्धा इत्यर्थः। विदधत्कुर्वन्नुपययौ प्राप्तः ॥२२॥

 दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
 मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥२३॥

 दलितेति ॥ पाटलाया अवयवाः पाटलाः । लुक्प्रकरणे 'पुष्पमूलेषु बहु- लम्' (वा.) इति बहुलग्रहणादलुक् । ते च ते कुङ्मलाश्च, दलिता विभिन्नाः कोमलाः पाटलकुमला येन तस्मिन् निजवधूनां श्वसितं निःश्वासमनुविधत्तेऽनुक- रोतीति तथोक्ते । तादृशीत्यर्थः । उन्मदा भ्रमन्तश्चालयो यस्मिंस्तस्मिन् उन्मदभ्र- मदलौ मरुति ग्रीष्मानिले वाति वहति सति । वातेर्लटः शत्रादेशः । विलासि- भिर्विलसनशीलैः कामिभिः । 'वौ कपलसकत्थस्रम्भः' (३।२।१४३) इति घिनुष्प्रत्ययः । मदेन लौल्यं चापल्यमुपाददे । मत्तैर्जातमित्यर्थः ॥ २३ ॥

 निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ।
 सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥२४॥

 निदधिर इति ॥ वरोरुभिः स्त्रीभिः तत्क्षणस्नपनेन सद्यःसेकेन वारितुषार- भृतः । जलशीकरधारिण इत्यर्थः । 'तुषारौ हिमशीकरौ' इति शाश्वतः । स्तना दयितोरसि निदधिरे निहिताः । तेषां संतापशान्तये स्नानार्द्राङ्गा एव आलिङ्गन्नि- त्यर्थः । किंच करेण पाणिना सरस आर्द्रश्चन्दनरेणुः घृष्टचन्दनपङ्कश्चानुक्षणं विच. करे विकीर्णः । किरतेः कर्मणि लिट् । 'ऋच्छत्यृताम्' (७।४।११) इति गुणः । 'करेणुकरोरुभिः' इति पाठस्तु 'ऊरूत्तरपदादौपम्ये' (४।१।६९) इत्यूप्रसङ्गा- द्धेयः ॥ इति ग्रीष्मवर्णनम् ॥ २४ ॥

 अथ वर्षावतारमाह-

 स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
 जलधरावलिरप्रतिपालितस्वसमया समयाज्जगतीधरम् ॥२५॥

 स्फुरदिति ॥ स्फुरन्ती अधीरे चञ्चले तडितौ नयने इव तडिन्नयने यस्याः सा अगलिता अरिक्ता उरुपयोधरा मेघा यस्याम् , अन्यत्र ऊरू च पयोधरौ च ऊरुपयोधरम् । प्राण्यङ्गत्वावन्द्वैकवद्भावः । न गलितं न पतितं यस्यां सा । जल- धरावलिर्मेधपङ्क्तिः । अत्र जलधरावलेः पयोधराणां चावयवावयविभावात्पृथङ्गि-

र्देशः । अप्रतिपालितस्वसमया अनपेक्षितनिजवेला सती । एकत्र यौगपद्यादन्य-