पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
पञ्चमः सर्गः ।

भुवि वेल्लनायाङ्गपरिवर्तनाय स्वैरं मन्दं समाचकृषिरे समाकृष्टाः । अध्वश्रमाप- नोदनार्थमिति भावः । वर्धते दृढबन्धनाद्दीर्घीभवतीति वर्ध्रम् । 'वृधिवपिभ्यां रन्' (उ० १८५) इत्यौणादिके रन्प्रत्यये लघूपधगुणो रपरः । 'वधं त्रपुवरत्रयोः' इति विश्वः । अमरस्तु 'नध्री वर्ध्री वरत्रा स्यात्' इत्याह । तदा 'ष्ट्रन्' इत्यौणादिके ष्ट्रन्प्रत्यये पूर्ववद्गुणो रपरः प्रत्ययतकारस्य 'झषस्तथोर्धोऽधः' (८।२।४०) इति धत्वे षित्त्वात्स्त्रीलिङ्गे ङीष् ॥ ५३॥

  आजिघ्रति प्रणतमूर्धनि बाह्लिजेऽश्वे
   तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
  नासाविरोकपवनोल्लसितं तनीयो
   रोमाञ्चतामिव जगाम रजः पृथिव्याः॥५४॥

 आजिघ्रतीति ॥ बाह्निरश्वयोनिर्देशविशेषः, तज्जे, बाह्निजेऽश्वे । 'बाह्निदेश्ये' इति पाठे विशेष्याप्रयोगो गम्यमानत्वादित्युक्तम् ।1 'दिगादिभ्यो यत्' (१।३।५४) इति भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः। प्रणतमूर्धनि नम्रशिरसि कृतप्र- णामे च आजिघ्रति गन्धं गृह्णति चुम्बति च सति । स्वभावात्कामाच्चेति भावः । नासाविरोकं नासारन्धं तस्य पवनो निःश्वासस्तेनोल्लसितमुद्भूतं तनीयस्तनुतरं रज- स्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चतां जगामेवेत्युत्प्रेक्षा । सा च भूतुरङ्गमयोः प्रतीयमानचेतननाय- काद्यभेदाध्यवसायादित्यवधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः । 'चजोः कु घिण्यतोः' (७।३।५२) इति कुत्वम् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति नपुंसकत्वाविरोधः । अत एव छिद्रं निर्व्यथनं रोकम्' इत्यमरः । 'रोको रश्मौ बिले न पुम्' इति वैजयन्ती । रोको दीप्तौ बिले रोकम्' इति विश्वः । ये तु केनाप्यभिप्रायेण 'विरेकपवन' इति पठन्ति तेषां परोत्सर्गैकजीविनामितिवदपानी- यपवनप्रतीतेरश्लीलाख्यो दोषः। 'अश्लीलं तदमङ्गल्यजुगुप्साव्रीडधीकरम्' इति लक्षणात् ॥ ५४॥

  हेम्नः स्थलीषु परितः परिवृत्त्य वाजी
   धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः।
  ज्वालाकणारुणरुचा निकरेण रेणोः
   शेषेण तेजस इवोल्लसता रराज ॥ ५५ ॥

 हेम्न इति ॥ हेम्नः स्थलीषु स्वर्णभूमिषु । 'जानपद-' (४।१।४२) इत्यादि- नाऽकृत्रिमार्थे ङीष्प्रत्ययः । परितः परिवृत्त्य परिवृत्तिं कृत्वा वपुर्धन्वन् धूलिनिर्ग- माय कम्पयन् अत एव प्रवितता विश्लिष्टा आयता च केशपङ्क्ती रोमसंघातो यस्य स वाजी ज्वालाकणाः स्फुलिङ्गास्तद्वदरुणरुचा रक्तवर्णेन रेणोर्निकरेणोल्लसता अत्युत्कटतया बहिरुद्गच्छता तेजसोऽन्तःसारस्य दर्पस्य शेषेणातिरेकेणेव रराज । उत्प्रेक्षालंकारः ॥ ५५ ॥

पाठा०-१ 'गर्गादिभ्यो यञ्, इति भवाथें यञ्प्रत्ययः'. २ 'प्रकरेण'.