दुःखेन भोजयितुमाशयिता शशाक
तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्ड-
स्नेह तिस्नपितबाहुरिभाधिराजम् ॥५१॥
दुःखेनेति ॥ उत्क्षिप्ते उद्यते हस्ततले दत्तो निहितो यः विधानस्य गजग्रा- सस्य पिण्डः । 'विधानं हस्तिकवलः' इति वैजयन्ती । तस्य स्नेहस्रुत्या घृतादिनिः- स्यन्दनेन स्नपितबाहुराप्लुतभुजः । स्नातेर्ण्य॑न्तात्कर्मणि क्तः । 'अर्तिर्ह्री-'(७/३।३६) इत्यादिना पुगागमः मित्वाद्रस्वः। आशयिता भोजयिता । अशेर्ण्य॑न्तात्तृच । तुङ्गाग्र- कायं स्वभावत एवोन्नतोर्ध्वकायम् । अनादरेणानमन्तं कवलग्रहणाय नतिमकुर्वा- णमिमाधिराजम् । 'गतिबुद्धि-' (१॥४॥५२) इत्यादिना अणि कर्तुणौं कर्मत्वम् । दुःखेन कृच्छ्रेण भोजयितुं शशाक । स्वभावोन्नतानां तत्राप्यहङ्कारग्रस्तानां को नम- यितेति भावः ॥ ५१ ॥
शुक्लांशुकोपरचितानि निरन्तराभि-
र्वेश्मानि रश्मिविततानि नराधिपानाम् ।
चन्द्राकृतीनि गजमण्डलिकाभिरुच्चै-
र्नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥५२॥
शुक्लेति ॥ शुक्लांशुकैः शुक्लपटैरुपरचितान्युपकल्पितानि, अन्यत्र तु अल्पा अंशवोऽशुकाः सूक्ष्मास्तेजोऽवयवाः । 'अल्पे' (५।३।८५) इत्यल्पार्थे कन्प्रत्ययः । शुक्लैस्तैरुपरचितानि व्याप्तानि रश्मिभिः प्रग्रहै:, किरणैश्च विततानि विस्तृतानि । 'किरणप्रग्रहौ रश्मी' इत्यमरः । चन्द्रस्येवाकृतिर्येषां तानि चन्द्राकृतीनि । चन्द्र- मण्डलनिभानीत्यर्थः । नराधिपानां वेश्मानि दूष्याणि निरन्तराभिर्नीरन्ध्राभिरुच्चैर्गज- मण्डलिकाभिर्गजपरिधिभिः । स्वार्थे कप्रत्ययः । कात्पूर्वस्येकारः । नीलाभ्रपङ्क्तिभिः परिवेषं परिधिम् । परिवेष्टनमिति यावत् । 'परिवेषस्तु परिधिः' इत्यमरः । अधि- जग्मुरिवेत्युत्प्रेक्षा ॥ ५२ ॥
गत्यूनमार्गगतयोऽपि गतोरुमार्गाः
स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसार-
संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥५३ ॥
गत्यूनेति ॥ गत्यूना विशिष्टगमनहीना मार्गगतयोऽध्वगमनानि येषां ते तथापि गतोरुमार्गाः प्रस्थितदूराध्वान इति विरोधः । अपिर्विरोधे । गत्यूना मार्गी मृगसंबन्धिनी गतिर्येषां त इति विरोधपरिहारः । अत एव विरोधाभासो- ऽलंकारः। दर्पस्य तेजसोऽन्तःसारस्योदयेनौत्कट्येनोल्लसितस्योद्धतस्य फेनजलस्य फेनीभूतोद्धतस्वेदोदकस्यानुसारेण प्रसारेण संलक्ष्याणि पल्ययनवर्ध्राणामासन-
बन्धचर्मवरत्राणां पदानि तन्नोदनान्निम्नीभूतस्थलानि येषां ते तथोक्ताः । तुरङ्गा