पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
शिशुपालवधे

  नवनगवनलेखाश्याममध्याभिराभिः
   स्फटिककटकभूभिर्नाटयत्येष शैलः ।
  अहिपरिकरभाजो भास्मनैरङ्गरागै-
   रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥६५॥

 नवेति ॥ एष शैलो रैवतको नवया नगवनलेखया तरुवनपङ्त्कया श्यामो मध्यो मध्यभागो यासां ताभिराभिः स्फटिकानां कटकभूभिस्तटप्रदेशैः करणैरहिरेव परिकरो गात्रिकाबन्धस्तं भजतीति तस्याहिपरिकरभाजः । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः । 'भजो ण्विः' (३।२।६२)। भास्मनैर्भस्ममयैः । वैकारिकोऽणप्रत्ययः । अणिति प्रकृतिभावात् 'नस्तद्धिते' (६।४।१४४) इति टिलोपो न । अङ्गरागैरनुलेपनैरधिगतधवलिम्नः प्राप्तधावल्यस्य शूलं पाणौ यस्य तस्य शूलपाणेरीश्वरस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (वा०) । अभिख्यां शोभाम् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे (३।३।१०६) इत्यङ्प्रत्ययः । नाटयत्यनुकरोति । निदर्शनालंकारः । मालिनी वृत्तमेतत् ॥ ६५ ॥

  दधद्भिरभितस्तटौ विकचवारिजाम्बू
   नदैर्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ।
  निषेव्य मधु माधवाः सरसमत्र कादम्बरं
   हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥६६॥

 दधद्भिरिति ॥ अत्राद्रौ माधवस्य इमे माधवा यादवाः विकचानि वारिजानि येषु तान्यम्बूनि ययोस्तौ विकचवारिजाम्बू अभित उभयतस्तटौ दधद्भिर्नदैरम्बुप्रवाहैः । प्राक्स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः नर्मदां विनेत्याहुः । विनोदितो दिनक्लमो येषां ते । विहारापनीताह्निकसंतापा इत्यर्थः । किंच जाम्बूनदस्य विकारैर्जाम्बूनदैः कनकभूषणैः कृतरुचो जनितशोभाः सन्तः रसवत्स्वादवत् । 'रसो गन्धे रसे स्वादे' इति विश्वः । कादम्ब इक्षुः । 'कादम्बः कलहंसेक्ष्वोः' इति विश्वः । कादम्बं राति रलयोरभेदाल्लाति प्रकृतित्वेनादत्त इति कादम्बरमैक्षवम् । 'पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम्' इति स्मरणात् । 'आतोऽनुपसर्गे कः' (३।२।३)। मधु मद्यम् । एवं च मधुकादम्बरशब्दयोः सामान्यविशेषपरत्वादपौनरुक्त्यम् । निषेव्य पीत्वा । क्षत्रियाणां पैष्ट्या एव निषेधादिति भावः । रतये सुरतार्थं रहः प्रियतमानां प्रेयसीनामङ्गादेवाङ्गकाद्गात्रादम्बरं वस्त्रं हरन्ति । यादवाश्चेह मधुपानरतोत्सवैर्विस्रब्धं विहरन्तीति भावः । पृथ्वीवृत्तम् । 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥ ६६ ॥

  दर्पणनिर्मलासु पतिते घनतिमिरमुषि
   ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः।