या वृत्तिर्वर्णसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादयमकानां प्रकल्पना । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ अत्यन्तं बहवस्तेषां भेदाः संभेदयोनयः । सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥' इति ॥३॥
सहस्रसंख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥४॥
सहस्रेति ॥ सहस्रमिति संख्या येषां तैः सहस्रसंख्यैः शिरोभिः शिखरैः शीर्षैश्च गगनं तथा तत्संख्यैः पादैः प्रत्यन्तपर्वतैश्चरणैश्च भुवं च व्याप्य वितिष्ठमानमवतिष्ठमानम् । 'समवप्रविभ्यः स्थः' (१॥३।२२) इत्यात्मनेपदम् । विलोचनयोर्यत्स्थानं योग्यदेशस्तद्गतावुष्णरश्मिनिशाकरौ यस्य तम् । अन्यत्र नेत्रीकृतार्केन्दुमित्यर्थः । अतः साधु सत्यं हिरण्यगर्भं ब्रह्माणमिवेत्युत्प्रेक्षा । 'सहस्रशीर्षा' इत्यादिश्रुतेरिति भावः । हिरण्यगर्भो निधिगर्भश्च ॥ ४ ॥
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥५॥
क्वचिदिति ॥ पुनः क्वचिदेकदेशे जलानामपायेनापगमेन विपाण्डुराणि शुभ्राणि अत एव धौतं क्षालितं यदुत्तरीयं तत्प्रतिमा तत्समा छविर्येषां तान्यभ्राणि मेघान् बिभ्राणं दधानम् । भृञः कर्तरि शानच् । अत एवोमायाः पार्वत्या अङ्गसङ्गेनार्धभागेन विभक्तं एकभागस्थापितं भस्म यस्य तं स्मरारिं हरमिव स्थितमित्युपमालंकारः ॥ ५॥
छायां निजस्त्रीचटुलालसानां मदेन किंचिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहंगमानां जलजातपत्रैः ॥६॥
छायामिति ॥ पुनः निजस्त्रीणां चटुषु प्रियवचनेषु लालसा लोलुपाः । 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि च' इति यादवः। तेषां निजस्त्रीचटुलालसानां मदेन किंचिदीषच्चटुलाश्चपलास्तेऽलसाश्च । विशेषणयोरपि मिथो विशेषणविशेष्यभावविवक्षया विशेषणसमासः । तेषां चटुलालसानां विहंगमानां हंसादीनामुत्पिञ्जलानि जातान्युत्पिञ्जलजातानि । पूर्ववत् समासः । तानि पत्राणि येषां तैरुत्पिञ्जलजातपत्रैः । उत्पिञ्जरीभूतदलैरित्यर्थः । रलयोरभेदः। जलजातपत्रैः जलजैरेवातपत्रैः छायां कुर्वाणम् । एतेन महती कमलाकरसमृद्धिर्व्योज्यते । यमकरूपकयोः संकरः ॥ ६॥
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः।
प्रनर्तितानेकलताभुजाग्रान् रुद्राननेकानिव धारयन्तम् ॥७॥
स्कन्धेति ॥ पुनः स्कन्धं प्रकाण्डमधिरूढा उज्ज्वला नीलकण्ठा मयूरा येषां
तान् , अन्यत्र स्कन्धाधिरूढा अंसस्थिता नीलाः कण्ठा येषां तान् । 'अंसप्रकाण्डयोः स्कन्धः' इति विश्वः । अहीन्द्रैः श्लिष्टतनून् व्याप्तदेहान् । एकत्र तदावासस्वादन्यत्र तद्भूषणत्वाच्चेति भावः । प्रनर्तितान्यनेकलतानामेव भुजानां लताना-