पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
शिशुपालवधे

नरपते कथिता भुवि पञ्चकावली' इति लक्षणात् । धृतश्रीवृत्तमिति कश्चित् । 'नजभपुरस्कृता जजजरा रचिता भुवि रुद्रदिक्पतिः' इति लक्षणात् ॥ ८२॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये तृतीयः सर्गः ॥३॥


चतुर्थः सर्गः।

 निःश्वासधूमं सह रत्नभाभिर्भित्त्वोत्थितं भूमिमिवोरगाणाम् ।
 नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥१॥

 निःश्वासेति ॥ नीलोपलैरिन्द्रनीलमणिभिः स्यूताः प्रोता विचित्रा नानावर्णा धातवो गैरिकादयो यस्य तम् । अत एव रत्नभाभिर्मणिप्रभाभिः सह भूमिं भित्त्वा, उत्थितमूर्ध्वं निर्गतं उरगाणां निःश्वासधूमं फूत्कारबाष्पमिव स्थितं रैवताख्यं गिरिमसौ हरिददर्श । स्यूतेति सीव्यतेः कर्मणि क्तः । 'च्छ्वोः शूडनुनासिके च' (६।४।१९) इत्युडादेशे यणादेशः । अत्र गिरेविशिष्टवर्णनीयत्वेन विशिष्टधूमत्वोत्प्रेक्षणाद्गुणनिमित्तजातिस्वरूपोत्प्रेक्षा । सर्गेऽस्मिन्ननावृत्तानि । तत्रादावष्टादशोपजातयः । तल्लक्षणं तूक्तमतीतानन्तरसर्गादौ । अत्रासर्गसमाप्येर्गिरिवर्णनमेव ॥१॥

 गिरिं ददर्शेत्युक्तम् , कीदृगित्याकाङ्क्षायामेकान्वयेनाष्टाभिर्विशिनष्टि-

 गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
 विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुनारोध्दुमिवोन्नमद्भिः ॥२॥

 गुर्वीरिति ॥ गुर्वीमहतीर्दृषदः । शिलातटीरिxx। पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्' इत्यमरः । उपर्युपरि दृषदां समीपे । उपरिप्रदेश इत्यर्थः । 'उपर्यध्यधसः सामीप्ये' (८1१७) इति द्विर्भावे तद्योगाद्वितीयेति । यथाह वामनः-'उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया' इति । समन्तादजस्रमुन्नमद्भिः । देशकालाविच्छेदेनोत्पतद्भिरित्यर्थः । अत एव तैरम्बुमुचां वितानैर्मेघवृन्दैनिमित्तैर्दिवसस्य भर्तुः सूर्यस्य मार्गं पुना रोद्धुम् । संहितायां 'रो रि' (८।३।१४) इति रलोपः 'ढ्रलोपे-' (६।३।१११) इति दीर्घः। विन्ध्यायमानमिव विन्ध्यवदाचरन्तम्। तद्वद्वर्धमानमिव स्थितमित्यर्थः । आचारे क्यङन्ताल्लटः शानजादेशः। अत्राविच्छिन्नमेघोन्नमनेन विन्ध्यायमानत्वोत्प्रेक्षणात् क्रियानिमित्तक्रियास्वरूपोत्प्रेक्षा ॥२॥

 क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् ।
 श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥३॥

 क्रान्तमिति ॥ पुनः नवानि प्रभाजालानि बिभ्रतीति नवप्रभाजालभृतः तेषां मणीनां संबन्धिन्या काञ्चनवप्रभाजा स्वर्णसानुप्रसृतया रुचा दीप्त्या कान्तं व्याप्तम् । पुनः शिलानां मेचकोपलानां, इन्द्रनीलानां वा श्यामलतया श्यामलिम्ना अभिरामम् । तथा आमन्त्रितपट्पदाभिः मकरन्दपूरितत्वादाहूतभृङ्गाभिः लताभिः श्रितं व्यासम् । इतःपरं द्व्यन्तरमेकं यमकं वक्ष्यति । तत्र तदेवालंकारः। अर्थालंकारस्त्वभ्युच्चेय इति यथासंभवमूह्यम् । यमकलक्षणं त्वाचार्यदण्डिनोक्तम्-'अव्यपेतव्यपेतात्मा वामनः-