पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
शिशुपालवधे

विश्वः । किंत्वर्थतोऽप्यर्थक्रिययापि तत्साम्यं दधुः । स्वयमतिसूक्ष्मत्वादव्यवधायकत्वं दृष्ट्यादेर्मूर्तान्तरगत्यविघातित्वं चेत्यादिनापि साम्यं दधुरित्यर्थः । उपमा- लंकारः॥५६॥

 यस्यामजिह्मा महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः ।
 जनैरजातस्खलनैर्न जातु द्वयेऽप्यमुच्यन्त विनीतमार्गाः॥५७॥

 यस्यामिति ॥ यस्यां पुरि अजिह्मा अवकाः, अन्यत्राकपटाः । दम्भादिरहिता इत्यर्थः । 'आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा' इति स्मरणादिति भावः । 'जिह्मः कपटवक्रयोः' इति विश्वः । अपङ्काः कर्दमरहिताः, निष्पापाश्च । 'पङ्कोऽघे कर्दमे' इति हैमः । महतीं सीमानं राजकल्पितक्षेत्रमानं मर्यादां, कुलागतानुष्ठानस्थितिं चात्यजन्तः। अत्यक्तमहामर्यादा इत्यर्थः । अतिमात्रा आयतिरायामः उत्तरकालश्च येषां ते अत्यायतयः । 'आयतिस्तूत्तरे काले संयमायामयोरपि' इति विश्वः । द्वये द्विरूपा अपि । 'प्रथमचरमतया-' (१॥१॥३३) इत्यादिना जसि विभाषया सर्वनामसंज्ञा । विनीतमार्गाः सुरचितपुरवीथयः, सुशिक्षिताचारपद्धतयश्च न जातं स्खलनं पाषाणादिप्रतिघातः, विरुद्धाचरणं च येषां तैर्जनैर्जातु कदाचिदपि नामुच्यन्त न त्यक्ताः । न कदाचित्खिलीकृता इत्यर्थः । अत्र मार्गशब्दस्य साधर्म्यादेकवृन्तावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेः, द्वयानामपि मार्गाणां प्रकृतत्वाच्च केवलप्रकृतविषयोऽर्थश्लेषः । विशेष्यस्यापि श्लिष्टत्वान्न तुल्ययोगिता ॥ ५७ ॥

 परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।
 श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥५८ ॥

 परस्परेति ॥ यत्र पुरि परस्परस्पर्धीन्यहमहमिकयाऽन्योन्यसामर्षाणि परा- र्ध्यानि श्रेष्ठानि रूपाणि सौन्दर्याणि यासां ताः। 'रूपं स्वरूपे सौन्दर्ये' इति विश्वः । पुरे भवाः पौरस्ताः स्त्रियः पौरस्त्रियः। 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः। विधाय निर्माय वेधाः स्रष्टा श्रियो लक्ष्मीदेव्याः निर्मित्या निर्माणेन प्राप्तं यत् घुणेन वज्रकीटेन क्षतस्योत्कीर्णस्यैकवर्णस्योपमया साम्येन वाच्यमपवादः तदलमत्यन्तम् । तदेव मलमिति केचित् । ममार्ज । घुणाक्षरवत् यादृच्छिकमिदं श्रीदेवतासौन्दर्यशिल्पं न कौशलमित्ययशः क्षालितवानित्यर्थः । अनया चातिशयोक्त्या पौरस्त्रीणां रमासमानसौन्दर्यं वस्तु व्यज्यते ॥ ५८ ॥

 क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव ।
 अध्यूषुषो यामभवञ्जनस्य याः संपदस्ता मनसोऽप्यगम्याः॥५९

 क्षुण्णमिति ॥ यदन्तःकरणेन क्षुण्णमभ्यस्तम् । ममेदं भूयादिति भूयोभूयः संकल्पितमित्यर्थः । कल्पयन्ति संकल्पितार्थानिति कल्पाः । कल्पा इत्युपपदं व्यावर्तकं येषां ते कल्पोपपदा वृक्षाः कल्पवृक्षाः तदेव फलन्ति फलानि निष्पादयन्ति । ‘फल निष्पत्तौ' इति धातोर्लट । कुतः । यां पुरमध्यूषुषो यस्यामुषितवन्तः ।

पाठा०-१ प्यभूमिः'.