सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
तृतीयः सर्गः ।

नम्रनीध्राः । 'वलीकनीध्रे पटलप्रान्ते' इत्यमरः । अन्यत्र नमन्त्यो वल्यस्त्रिवल्याख्या मध्यरेखा यासां ता नमद्वलीकाः । 'नद्यृतश्च' (५।४।१५३) इति कप्प्रत्ययः । 'वली मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु' इति वैजयन्ती । वलभीः कूटागाराणि । 'कूटागारं तु वलभी' इत्यमरः । वधूभिः सममसेवन्त । वधूसहिता असेवन्तेत्यर्थः । अत्र वधूनां वलभीनां च प्रकृतानामेव धर्मसाधर्म्येणौपम्यावगमात् केवलप्रकृतगोचरा तुल्ययोगिता न श्लेषः । तत्र विशेष्यस्यापि श्लिष्टत्वनियमात् । यथाहुः-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति ॥ ५३ ॥

 सुगन्धितामप्रतियत्नपूर्वां विभ्रन्ति यत्र प्रमदाय पुंसाम् ।
 मधूनि वक्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥५४॥

 सुगन्धितामिति ॥ यत्र पुरि न प्रतियत्नः संस्कारः पूर्वो यस्यास्तामप्रतियत्नपूर्वामकृत्रिमाम् । स्वाभाविकीमित्यर्थः । 'प्रतियत्नस्तु संस्कारः' इति वैजयन्ती । शोभनो गन्धो येषां तेषां भावस्तत्ता तां सुगन्धितां सौरभ्यम् । 'गन्धस्येत्-' (५।४।१३५) इतीकारः । विभ्रन्ति विभ्राणानि । 'वा नपुंसकस्य' (७।१।७९) इति नुमागमः । मधूनि मद्यानि कामिनीनां वस्त्राणि च यूनां प्रमदाय प्रीत्यै आमोदकर्मणो वासनाधानस्य व्यतिहारं परस्परकरणमीयुः । अन्योन्यगन्धेनान्योन्यं वासयामासुरित्यर्थः । इणो लिट् । अत्रापि मधूनां वक्राणां च प्रकृतत्वात्तत्पूर्वक एव तुल्ययोगिताभेदः । तेन यूनां मधुवासितवधूवदनपानं वदनवासि- तगण्डूषपानं च वस्तु व्यज्यते । तेन च निरातङ्कभोगाः पौरा इति गम्यते ॥५४॥

 रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः ।
 रुतानि शृण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ५५

 रतान्तर इति ॥ यत्र पुरि गृहान्तरेषु वितर्दयो विहारवेदिकाः । 'स्याद्वितर्दिस्तु वेदिका' इत्यमरः । तासां निर्यूहा मत्तवारणाख्या अपाश्रयाः । 'निर्यूहो मत्तवारणः' इति वैजयन्ती । तेषां विटङ्का उपरितन्यः कपोतपालिकाः त एव नीडाः कुलाया यस्य सः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । वयसां शुकसारिकादिपत्रिणां गणः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । अङ्गनानाम् । वितर्दिषु रममाणानामिति भावः । रतान्तरे रुतानि रतिकूजितानि शृण्वन् । अन्ते समीपे वसन्त इत्यन्तेवासिनः शिष्याः । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । 'शयवासवासिष्वकालात्' (६।३।१८) इत्यलुक् । तेषां भावस्तत्त्वमाप । समीपे प्रतिशब्दं यथाश्रुतमुच्चारणादेवमुत्प्रेक्ष्यते। अत एव स्फुटमिति व्यञ्जकप्रयोगः ॥५५॥

 छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।
 आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि॥५६॥

 छन्नेष्विति ॥ यत्र पुरि छन्नेष्वाच्छादितेषु । 'वा दान्त-' (७।२।२७) इत्यादिना वैकल्पिको निपातः । स्पष्टतरेषु । स्फुटतरं लक्ष्यमाणेष्वित्यर्थः । नारीकुचमण्डलेषु स्वच्छानि स्फटिकादिवदतिरोधायकानि, अम्बराणि वस्त्राणि केवलं नामतोऽम्बरमिति नाम्नेवाकाशसाम्यं न दधुः । 'अम्बरं व्योम्नि वाससि' इति

-