पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
तृतीयः सर्गः ।

 कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः ।
 रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ४१ ॥

 कुतूहलेनेति ॥ अम्बु वहतीत्यम्बुवाहो मेघः । कर्मण्यण् । कुतूहलेनान्त:- प्रवेशकौतुकेनेवेति हेतूत्प्रेक्षा । जवादुपेत्य यस्याः प्राकारभित्त्या सहसा निषिद्धो निवारितः अत एव बहिरेव रसन् गर्जन् । दुःखात् क्रन्दंश्चेति श्लेषः । अम्बुवर्षव्याजेन भृशमरोदीत् अश्रूणि मुक्तवान् । 'रुदिर् अश्रुविमोचने' लङ् 'रुदश्च पञ्चभ्यः' (७।३।९८) इतीडागमः । अत्राम्बुवर्षव्याजेनोत्पादकस्योक्तश्लेषोत्प्रेक्षासापेक्षत्वात्संकरः ॥४१॥

 यदङ्गनारूपसरूपतायाः कंचिद्गुणं भेदकमिच्छतीभिः ।
 आराधितोऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः४२

 यदङ्गनेति ॥ यस्यां पुर्यामङ्गनानां रूपं सौन्दर्यमाकारो वा । 'रूपं स्वभावे सौन्दर्ये आकारश्लेषयोरपि' इति विश्वः । तस्य सरूपतायाः सारूप्याद्भेदकं व्यावतकं कंचिद्गुणं धर्ममिच्छतीभिरपेक्षमाणाभिः । 'आच्छीनद्योर्नुम्' (७।१।१८०) इति विकल्पान्नुमभावः । अप्सरोभिराराधितः प्रार्थितो मनुर्मानुषसृष्टिकर्ता स्वाः स्वकीयाः प्रजाः निमेषः पक्षमपात एव चिह्नं व्यावर्तकं तेन सह वर्तन्त इति सनिमेषचिह्नाः । तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । चक्रे अद्धा तत्त्वमित्युत्प्रेक्षा । 'तत्त्वे त्वद्धाञ्जसा द्वयोः' इत्यमरः । अत्र स्वाभाविकनिमेषस्याप्सरसः प्रार्थनाहेतुकत्वोत्प्रेक्षया द्वारकाङ्गनानां निमेषमात्रभिन्नममानुषं सौन्दर्यं वस्तु व्यज्यते ॥ ४२ ॥

 स्फुरत्तुषारांशुमरीचिजालैर्विनिह्नुताः स्फाटिकसौधपङ्क्तीः ।
 आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्यराजन् ॥४३॥

 स्फुरदिति ॥ यस्यां पुरि क्षणदासु रात्रिषु नार्यः स्फुरद्भिस्तुषारांशोश्चन्द्रस्य मरीचिजालैश्चन्द्रिकाभिः विनिह्नुता अपहृताः । तदेकरूपतापत्तेरगृह्यमाणा इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । स्फाटिकानां स्फटिकविकाराणां सौधानां पङ्क्तीरारुह्य नभोगता देव्यो देवाङ्गना इव । देवशब्दस्य पचादिषु देवडिति पाठात् 'टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । व्यराजन् । सौधानामग्रहणादभ्रंकषत्वात् तत्र लक्ष्यमाणाः स्त्रियः खेचर्य इव रेजुरित्यर्थः । अत्र नभोगतत्वोत्प्रेक्षायाः पूर्वाक्तसामान्यसापेक्षत्वात्संकरः ॥ ४३॥

 कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।
 उचैरधःपातिपयोमुचोऽपि समूहमूहुः पयसां प्रणाल्यः ॥४४॥

 कान्तेति ॥ यत्र पुरि क्षपासु रात्रिषु प्रतिक्षपम् । विभक्त्यर्थेऽव्ययीभावः । कान्तानि रम्याणीन्दुकान्तोपलानां चन्द्रकान्तमणीनां कुट्टिमानि बद्धभूमयो येषु तेषु । 'कुट्टिमं बद्धभूमिः स्यात्' इति हलायुधः । हर्म्यतलेपूच्चैरुन्नताः प्रणाल्यो जलमार्गाः । 'द्वयोः प्रणाली पयसः पदव्याम्' इत्यमरः । अधःपातिनोऽधश्चराः


पाठा०-१ 'यस्याः'.