सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
शिशुपालवधे

त्पतद्भिः शङ्खानां कुलैराकुलेन संकीर्णेन यस्याः पुरो वप्रेण प्राकारेण पर्यन्ते चरतीति तत्तादृशमुडुचक्रं नक्षत्रमण्डलं यस्य सः सुमेरोर्वप्रः सानुः । 'सानुप्राकारयोर्वप्रम्' इत्युभयत्रापि सज्जनः । अहन्यहनीत्यन्वहम् । 'अव्ययं विभक्ति-' (२।१।६) इत्यादिना यथार्थेऽव्ययीभावः । 'अनश्च' (५।४।१०८) 'नपुंसकादन्यतरस्याम्' (५।४।१०९) इति समासान्तोऽच् । अन्वकार्यनुकृतः । तत्साम्यं प्रापित इत्यर्थः । मेरूपमानाद्वप्रस्य तत्तुल्यमौन्नत्यं व्यज्यते ॥ ३७॥

 वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः।
 लोलैरलोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतामवाप ॥३८॥

 वणिक्पथ इति ॥ यत्र यस्यां पुरि वणिजां पथि वणिक्पथे आपणे अपूगाः पूगाः संपद्यमानानि कृतानि पूगकृतानि पुञ्जीकृतानि । 'श्रेण्यादयः कृतादिभिः' (२।११५९) इति समासः । श्रेण्यादिषु च्व्यर्थवचनमिति च्व्यर्थता । अलोलद्युतिभाञ्जि स्थिरप्रभावन्ति रत्नानि लोलैश्चलैः । अत एव भ्रमागतैर्जलनिर्गममार्गादागतैः । 'भ्रमाश्च जलनिर्गमाः' इत्यमरः । अम्बुभिर्मुष्णन् अपहरन् , अम्बुराशिरर्णवः । जलमात्रसारोऽपीति भावः । रत्नाकरतामवाप प्राप । न तु प्रागिति भावः । अम्बुराशेः प्राग्रन्तसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः । तथा च पुर्याः समुद्रातिशायिनी रत्नसमृद्धिर्वस्तु व्यज्यते ॥ ३८ ॥

 अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः।
 यत्रातपे दातुमिवाघितल्पं विस्तारयामास तरङ्गहस्तैः ॥ ३९ ॥

 अम्भ इति ॥ यत्र पुरि अपांनिधिः समुद्रः । अम्भश्च्योतन्ति क्षरन्तीत्यम्भश्युतो जलस्राविणः अत एव फेनैः पिनद्धभासः पिहितकान्तीन् । अपिपूर्वान्न- ह्यतेः कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपेरकारलोपः । कोमलानुत्कृष्टान् रत्नराशीनातपे दातुं शोषणार्थं निधातुमिवेति फलोत्प्रेक्षा। तल्पेष्वट्टेषु अधितल्पम् । 'तल्पं शय्याट्टदारेषु' इत्यमरः । विभक्त्यर्थेऽव्ययीभावः । तरङ्गैरेव हस्तैर्विस्तारयामास प्रसारितवान् । अत्रातपदानस्य तरङ्गहस्तसाध्यत्वेनोत्प्रेक्षारूपकयोः संकरः ॥ ३९ ॥

 यच्छालमुत्तुङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।
 महोर्मिभिर्व्याहतवाञ्छितार्थैव्रीडादिवाभ्यासगतैर्विलिल्ये ॥ ४० ॥

 यच्छालमिति ॥ सागरस्य महोर्मिभिः कर्तृभिर्यच्छालं यस्याः प्राकारम् । 'प्राकारो वरणः शालः' इत्यमरः । उत्तुङ्गतया औन्नत्यगुणेन । जेतुमिवेत्यर्थः । फलोत्प्रेक्षेयं व्यञ्जकाप्रयोगाद्गम्या । दूरादुदस्थीयतोत्थितम् । भावे लङ् । अभ्यासगतैः समीपगतैः । 'समीपे निकटाभ्याससंनिकृष्टसनीडवत्' इत्यमरः । व्याहतो

वान्छितार्थः शालविजयरूपो येषां तैः । विजयाक्षमैरित्यर्थः । अत एव व्रीडादिवेति हेतूत्प्रेक्षा । ऊर्मिभिर्विलिल्ये विलीनम् । लीयतेर्भावे लिट् । अत्र शक्तस्याप्यविजिगीषोर्व्रीडानुदयात् सापेक्षत्वेनोत्प्रेक्षयोः संकरः ॥ ४० ॥