पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
शिशुपालवधे

तथा यत्नेन दुर्वारवेगत्वादतिप्रयत्नेन निरुद्धा वाहा वाजिनो यैस्तैः । 'वाजिवाहार्व्रगन्धर्व-' इत्यमरः । तुरङ्गिभिरश्वसादिभिरग्रे पुरोदेशेऽवेक्षितानालोकितान् रेणुभिः प्रक्रीडन्तीति प्रक्रीडितान् पांशुक्रीडाकरान् । कर्तरि क्तः । पृथुकान् शिशून् । 'पृथुकः शावकः शिशुः' इत्यमरः । जनन्यस्तूर्णमेत्य पथिभ्यो निन्युः अपसारयांचक्रुरिति स्वभावोक्तिः ॥ ३० ॥

 दिदृक्षमाणाः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।
 अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥३१।।

 दिदृक्षमाणा इति ॥ अनघमकलङ्कं मुरारि दिदृक्षमाणा द्रष्टुमिच्छन्तः । दृशेः सन्नन्ताल्लटः शानजादेशः । 'ज्ञाश्रुस्मृदृशां सनः' (१॥३५७) इत्यात्मनेपदम् । जनौघा रथ्यायां रथ्यायां प्रतिरथ्यम् , यथार्थेऽव्ययीभावः । आरात् समीपम् । 'आरादूरसमीपयोः' इत्यमरः । ईयुर्जग्मुः । इणो लिट् 'दीर्घ इणः किति' (७४।६९) इत्यभ्यासदीर्घः । ननु नित्यपरिचिते का दिदृक्षेत्यत्राह-अनेकश इति । अनेकशो बहुवारमित्यर्थः । 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' (५।४।४२) इति शस्प्रत्ययः । संस्तुतं परिचितमपि वस्तु । जनेनेति शेषः । 'संस्तवः स्यात्परिचयः' इत्यमरः । अनल्पाधिका प्रीतिः प्रेम कर्त्री नवं नवम् । आभीक्ष्ण्येन नवं करोति । 'नित्यवीप्सयोः' (८।१।४) इति द्विर्भावः। अहोशब्दः पुराणस्यापि नूतनत्वमित्याश्चर्ये । यथा परप्रेमास्पदं वस्तु नित्यदृष्टमप्यदृष्टचरमिव प्रतिक्षणं दिक्षते भगवानपि तथैवेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥३१॥

 उपेयुपो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभिः ।
 रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ॥३२

 उपयुष इति ॥ विद्वानभिज्ञः अत एव तस्यां पुरि नगर्यां दत्तचक्षुः निसृष्टदृष्टिरसौ हरिर्निरन्तराभिर्नीरन्ध्राभिरनीकिनीभिः सेनाभिर्निरुच्छ्वासमतिसङ्कटं वर्त्म उपेयुषः प्राप्तस्य रथस्य शनैर्यातं संबन्धनिबन्धनं मन्दगमनं न विदामास न विवेद । 'उपविदजागृभ्योऽन्यतरस्याम्' (३।१।३८) इत्याम्प्रत्ययः । व्यासङ्गादसंवेदनं न तु तत्त्वाज्ञानादिति भावः । व्यासङ्गस्य पदार्थत्वात् पदार्थ हेतुकं काव्यलिङ्गम् ॥ ३२॥

 अथैकत्रिंशच्छ्लोकैर्द्वारकां वर्णयति-

 मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काश्चनवप्रभासा ।
 तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥३३॥

 मध्य इति ॥ समुद्स्य मध्ये मध्येसमुद्गम् । 'पारे मध्ये षष्ठ्या वा' (२॥ १११८) इति विकल्पादव्ययीभावः । मध्यशब्दस्य तत्संनियोगादेकारान्तत्वम् ।

काञ्चनवप्रभासा हेमप्राकारप्रभया ककुभो दिशः पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीष् । कुर्वती या पू: जलं समुद्रोदकं भित्त्वा । उत्थितेति शेषः । तुरङ्गकान्ताया वडवाया मुखे हव्यं वहतीति हव्यवाहोऽग्निः । कर्मण्यण्प्रत्ययः । तस्य वाडवाग्नेर्वालेवोल्लास उद्बभासे । अत्र समुद्रान्तर्लीनायां वडवानलज्वालायां कदाचिसंभाव्यमानस्य मध्योल्लसनस्य पुरि दर्शनाभेदाध्यवसायेनास्या ज्वालात्वमुत्प्रेक्षते ।