पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
तृतीयः सर्गः ।

 श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः ।
 आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥२७॥

 श्यामेति ॥ श्यामानि चारुणानि च तैः श्यामारुणैः कृष्णलोहितैः । 'वर्णो वर्णेन' (२।१।६९) इति समासः । वारणदानतोयैर्गजमदोदकैरालोडिताः संमिलिता अत एव शितिकण्ठपिच्छक्षोदा मयूरबर्हचूर्णा इव द्योतन्त इति तथोक्ताः । क्विप् । उपमालंकारः । काञ्चनस्य भूः काञ्चनभूस्तस्याः परागाः पांशवः । आनेमि नेमिमभिव्याप्य । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री' इत्यमरः । 'आङ् मर्यादाभिविध्योः' (२।१।१३) इत्यभिविधावव्ययीभावः । मग्नै रथौधैः चुक्षुदिरे । पिष्टा इत्यर्थः । परागाणां विशिष्टपेषणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तथा च महती गजरथसंपत्तिर्व्य॑ज्यत इत्यलंकारेण वस्तुध्वनिः ॥ २७ ॥

 न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।
 अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ।। २८ ।।

 नेति ॥ अष्टसु धातुषु पदं प्रतिष्ठा अस्येत्यष्टापदं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इति सुवर्णपर्यायेष्वमरः । तस्य भूमिस्तस्या रेणुः काञ्चनभूरजः पदाहतः । रथाश्वादिचरणताडितोऽपि सन्नित्यर्थः । महाजनानां बहुजनानां पूज्यानां च शिरांसि न लङ्घयामास नाकामति स्म । किं बहुना, उद्ध- तिमुत्पवनं दर्पं च नैवाजगाम । कुतः । यद्यस्माद्गरिम्णो गुरुत्वगुणस्य माहात्म्यस्य च । 'प्रियस्थिर-' (१।४।१५७) इत्यादिना गुरोर्गरादेशः । सदृशमनुरूपं यथा तथाऽचेष्टत । अलङ्घनव्यवहारे गुरुत्वस्यौद्धत्यप्रतिबन्धकत्वादिति भावः । अत्रानौद्धत्यादिप्रस्तुतसुवर्णपरागविशेषणसाम्यादप्रस्तुतसुजनप्रतीतेः समासोक्तिरलंकारः

 निरुध्यमाना यदुभिः कथंचिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।
 ध्रुवं गुरून्मार्गरुधः करीन्द्रानुल्लङ्घय गन्तुं तुरगास्तदीषुः॥२९॥

 निरुध्यमाना इति ॥ तुरगा यदुभिः । आरूढैरिति भावः । कथंचिदतिप्र- यत्नेन निरुध्यमाना वल्गाकर्षणेन वार्यमाणा अपि यद्यस्मादग्राश्च ते पादाश्च तानग्रपादान् । 'हस्ताग्राग्रहस्तादयो गुणगुणिनोरभेदभेदयोगात्' इति वामनः । सामानाधिकरण्येन समासः । मुहुरुच्चिक्षिपुरुत्क्षिप्तवन्तः तत्तस्मान्मार्गं रुन्धन्तीति मार्गरुधो मन्दगमनेन मार्गरोधिनः । क्विप् । गुरून्महतः, पूज्यांश्च । अलङ्घ्यानपीति भावः । करीन्द्रानुल्लङ्घ्य गन्तुमीषुरिच्छन्ति स्म । ध्रुवमित्युत्प्रेक्षायाम् । गुरवोऽपि सन्मार्गरोधकाः परैरुल्लङ्घयन्त इत्यलंकारेण वस्तुध्वनिः ॥ २९॥

 अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।
 प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ।।

 अवेक्षितानिति ॥ आयता आकृष्टा वल्गा मुखरज्जुर्यस्मिन्कर्मणि तद्यथा

पाठा०-१ "पिच्छ” इति टीकाकृत्संमतः पाठः. २ 'खुराहतः'


शिशु० ७