पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९२
शिवार्चनाचन्द्रिकायाम्

खवपीयूषसङ्घातप्लाविताशेषदिक्तटम् । स्मरे दूर्द्धमधस्ताच्च चन्द्रमण्डलसंयुतम् । बिंबसंपुटमध्यस्थं सुधाधारापरिस्प्लुतम् । स्वदेहं चिन्तयेच्छाक्तैस्सुधावयें सुधामकम् ॥ आत्मरक्षा भवेदेषा सुरैरापि नभिद्यते । आस्मरक्षां विधायेत्थं मन्त्ररक्षा मथाचरेत् ॥ रेचये दुद्राद्वारं दक्षनाड्याऽत्रमन्त्रतः । इंडया पूरयेद्वद्यात् संभुना वायुनोदरम् ॥ अपान मुत्कृष्य प्राणापानौ निरुध्य च। कुंभेन मनसा वायु सुषुम्नायां नियोजयेत् ॥ सुषुम्नमध्यसंस्थायां हृद्देशेशियसंयुजि । मन्त्रनियोजयेन्मन्त्री चिच्छक्तौ मन्त्रमातरि ॥ मन्त्राक्षराणि मणिवत् प्रभात्रन्मन्त्रदेवताम् । गमागमप्रयोगेन स्मरन्मन्त्रं जपेत्सुधीः । वाच्यवाचकसंबन्धं जपेत्राद्तमानसः। मन्त्ररक्षा भवेदेषा संहिता सुररक्षिता । इत्थं विदित्वा यत्तेन जपकर्म समाचरेत् । जपकर्मक्रमस्सोऽथ सुस्पष्टं प्रतिपाद्यते ॥ नाभ्यादिद्वादशान्तान्तं सोमसूर्याग्निरूपिणम् । आनन्दरूपिणीं शक्तिं सुषुम्नान्तर्गतां पराम् ॥ आघारचक्रमारभ्य बोधयित्वाऽनिलेन ताम् । ब्रह्माणं केशवं रुद्र मीश्वरंच सदाशिवम् ।