पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
पञ्चाक्षरजपविधिः ॥

नानीति एकत्रिंशद्वीपाः । अथ दर्पणच्छत्रचामर व्यजनताळवृन्तानि क्र मादीशानादिदश्वैस्समर्य तद्दिवसार्जितचामनःकायदोषपरिहाराय शिव सायुज्यप्राप्तये च दूर्वाकुशाक्षतविल्वपत्रसाहितपुष्पाञ्जलिं हां हैं शिवतत्वा धिपतये शिचायनमः । हां हैं विद्यतत्वाधिपतये शत्राय नमः । हां हैं आत्मतत्वाधिपतये शिवाय नमः । इति त्रिवारं समर्पयेत् । मुमुक्षुधे दा मतत्वादिक्रमेण अथवा सर्वतवाधिपतये शिवायनम इति सकृदेवघा समर्पयेत् । ततः पूजया सन्तुष्टं त्राभिमुखीकृताञ्जलिपुटसकलभोगाङ्गसे- व्यमानं यागमन्दिरद्वाराह्यस्थब्रदोषेन्द्रमहेन्द्रचन्द्रसूर्यादिस्तूयमान मपार करुणामृतसमुद्रं भक्तजनसकलभीष्टप्रदञ्च शिवं ध्यात्वा पूजासाद्ण्या र्थ यथाशक्ति श्रीमत्पञ्चाक्षरजपं कुर्यात् ॥

पञ्चाक्षरजपविधिः॥

श्रीमत्पन्धाक्षरस्याथ प्रकारः प्रतिपाद्यते । गुरूपदिष्टमार्गेण गोपनीयः प्रयत्नतः । शिासनपत्रस्य दक्षिणदळे अघोरमूर्तेर्दक्षिणभागे । तप्तचामीकरप्रख्यां पीनोन्नतपयोधराम् । चतुभुजां त्रिणयनां बालेन्दुकृतशेखराम् ॥ पद्मोत्पलधरां सौम्यां वरदाभयपाणिकाम् । सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् । सितपद्मासनासीनां नीलकुञ्चितमूर्धजाम् । श्रीमत्पञ्चाक्षरीविद्यां मनसघाहनादिभिः । गन्धपुष्पे धूपदीपै नैवेद्येन च पूजयेत् । सुखासने समाविष्टो रक्षिताक्ष उदङ् मुखः। नासाग्रन्यस्तदृङ्मनी निदध्यादामरक्षणम् ॥