पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
शिवार्चनाचन्द्रिकायाम्

केनाभ्यर्थे यथासंभवं पुष्पमालिकाभि रलंकुर्यात् । मालिकाश्च शतादिसुत्र- पुष्पराचिताः सहस्रादिनीलोत्पलरचिताः करवीरसितांभोज विजयासित- पाटल पुनाग श्वेतमन्दार नागकेसर चंपकरचिताश्च प्रशस्ताः । ताश्च वि चित्रपुष्पांतररचितमालिकाश्च उमाधारपार्श्वयो समृद्धा बद्धव्याः । लिङ्ग- मौळे हस्तेमणिसुवर्णनिर्मतं पुष्पनिर्मितं वा एकद्वित्रिचतुरभूमिक मिंडाख्यं प्रवृत्तदाम समर्पणीयम् । एवं पुष्पोपचारानन्तरं धूपदीपोपचारः ॥ तत्प्रकारः - सुवर्णरजतताम्रारकूटान्यतमनिर्मितं चतुरंगुळायतं तदर्धमानोत्सेध मष्टांगुळोष्ठं पश्चाद्भागे पदळाकित द्वयंगुळकण्ठ दूयंगु ळोन्नत सुवृत्तखुराकारपादं ह्यंगुळानाहेन पूर्वोक्तलक्षणपादयुक्तेन वक्त्र नाळेन समन्वितं अनेकमुपिरेणैकसुषिरेण वा कमलमुकुळाकृतिना पिधा नेनान्वितं धूपपात्रं निर्मलेनांगारवह्निनाऽऽपूर्य तस्मिन्धूपद्रव्यं निक्षिप्य धूप- पात्रंपिधाय निरीक्षणादिभिस्संस्कृस्य गन्धपुष्पैरभ्ययं धूपमुद्रां प्रदर्य धूपपात्रं दक्षिणहस्तेनादाय वामहस्ते शुद्धकांस्यनिर्मितां चतुःपञ्चषडंगुला न्यतमोत्सेधां तावदायामां । तावन्मानजिह्मां तत्रिगुणानाहा मर्धींगुळोष्टा मुपपट्टिकायुक्ता मेकांगुलद्वयंगुल सार्धद्वयंगुळशिखरा मॉंगुलकण्ठां त्र्यंगुलानाहां त्रिचतुःपञ्चषडंगुलदैर्येनाळा सुपरिशूलपमवृषभशङ्कचक्र- न्यतमचिह्नयुक्तां घण्टां घोषयन्नेव देवस्य घ्राणसमीपे ओं हां हंशिवाय धूपं स्वाहेति धूपं प्रदर्य तदुपरि धूपपात्र मुद्धृत्य तद्भामयन्नेव किरीटे बिन्दु द्वयान्वितपार्श्वदण्डाकारं नादं मुखवृत्ते बिन्दुदेहे हकारं बाह्रो रौकारं पादयोरूकारं च धूपपानभ्रमणेन भावयेत् ॥ धूपद्रव्यम्—क़र्ररागरु चन्दनतक्कोलजातिफल लघङ्गसिल्हूक मांग सीमुस्तापत्रचूर्णं यक्षकर्दमाख्यम् । चन्दनागरु कर्ररेला लवङ्ग त्वक्पत्र पुष सिम्हाक जटामांसीचूर्णं प्राजापयनामकम् । चन्दनागरु कट्टर