पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
शिवार्चनाचन्द्रिकायाम्

अजुळीख हां हृदयायनमः। हीं शिरसेनमःहे शिखयैनमःहैङ्कवचायनमः हौं नेत्रत्रयायनमः । हः अत्रायफडिति विन्यस्य दक्षिणपाणिं गोकर्ण कृतं कृत्वा तेन माषमनुनाई जलं गृह्खा संवीक्ष्यांगुष्ठकनिष्ठिके मुक्त्वा तज्जलं शुक्लपक्षे सोमरूपं कृष्णपक्षे सूर्यरूपं च विचिन्त्य तत्प्राशनेन रसनाग्नस्थिताया भारत्यास्तृप्तिः स्वस्यांतर्देहशुद्धिञ्च ध्यात्वा अन्तरान्तर हस्तप्रक्षाळनपूर्वकं जलतीर्थेन स्वधतेन मूलमन्त्रेण त्रिराचमेत् । तत स्त्रस्याननशुद्ध ओष्ठसंपुटस्थितायाः प्रणवदेवतायाः शुद्धविभावयन् अंगुष्ठमूलेन द्विरो द्विबरं मार्जयेत् ।

अथ भस्मधारणम् ॥


चतुर्विधं भस्म कल्प मनुकल्प मुपकल्प मकपद्यते । तत्र व्याध्या दिराहितां सत्रत्सां गां संपूज्य तदीयं गोमयं भूमावपतितं आकाशस्थमेव गृहीत्वा पिण्डीकृत्य विशोष्य पञ्चब्रह्ममन्त्रेश्शिववह्नौ दग्ध्वा मूलेन विशोब्य यत्संपादितं यच्चाग्निहोत्रे समुद्धृतं तदुभयं कल्पम् । वने शुष्कं गोमयं गृ हीत्वा शिववह्नौ दग्या मूलेन विशोब्य संपादितमनुकल्पम् । अटवीगृहे गौवासे इष्टकापाकादिषु दावाग्न्यादिभिर्दग्धंभस्मगृहीत्वा वस्त्रेण संशोध्य गोमूत्रेण पिण्डीकृत्य पुनशिवाग्नौ दग्धं मूलेन शोधितमुपकल्पय। मन्दादि हीनं ब्राह्मणैःीशूद्रादिभिर्वा शुचि गोमयं गृहीत्वा संपादितं (१) श्रोत्रि यागारचुझ्यादिभ्योगृहीतंवा यत्तदकल्पम् । अकल्पयेत्तद्गृहीत्वाऽस्रम न्त्रेण दिग्वन्धनं कृत्वा ह ईशानमूोंनमः । ॐ तत्पुरुषवक्रायनमः । ॐ अघोरहृदयायनमः । हि वामदेवगुह्यायनमः । हे सद्योजातमूर्त येनमः । हां हृदयायनमः । हीं शिरसेनमः । हूं शिखायैनमः । हैं कवचायनमः


१. श्रोत्रियागारचुल्यादिवह्नौदथमिति पाठभेदः।