पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शैवसन्ध्याप्रकारः

ऽयं चतुर्वक्त्रमात्मतत्वरूपं ब्रह्मणं ध्यायामीति आमतवध्यानपूर्वकं हां आत्मतत्त्वायस्वधेति प्रथममाचामेत् । अनेन स्वशरीरे पृथिव्यादिमायांते. एकत्रिंशत्तत्रशुद्धिं भावयेत् । ततो नीलवर्णं चक्रबाणकमलचिन्मुद्रा शवकार्मुक कमण्डस्वभयमुद्रांकितकराष्टकमेकवक्त्रं विद्यातत्वरूपं विष्णु भ्यायामीति विद्यातत्यपूर्वकं हैिं विद्यातत्वाय स्वधेत्याचामेत् । अनेन शुद्धाविवेश्वरसदाशिवाख्यत्रितत्वशुद्धिंभावयेत् । ततस्फ़टिकवणं पझाक्षमा लागूलकमण्डलुधरकरचतुष्टयं पञ्चवकं शिवतत्वरूपं रुद्रं . घ्यायामीति शिवतत्त्वज्ञानपूर्वकं हं शिवतत्वायस्वधेत्याचामेत् । अनेन शक्तितत्वशुद्धिंभा वयेत् । ततोऽस्रमन्त्रेण ओष्ठं द्विः प्रमृज्य हृन्मन्त्रेण नेत्रादीन्स्पृशेत् । अन्यत्तु तत्तद्देवतातृप्तिध्यानादिकं पूर्ववत्कुर्यात् । इत्याचमनक्रमः ॥

ततोऽभिषिच्य देवेशं निवेश्यं कमलासने । तत्रासनंच मूर्तिच विद्यादेहं च पूजयेत् ॥ आवाह्याथ महादेवं संपूज्य स्थापनादिभिः। मनसा स्नापयित्वा च दद्याद्वत्रोपवीतकम् । ततस्सम्पूज्य देवेशं गन्धपु पविभूषणैः । धूपं दीपञ्च दत्वाऽथ कुर्यादावरणार्चनम् । नैवेद्य मुखवांसश्च तांबूलं च समर्पयेत् । धूपमारात्रिकां दत्वा पवित्रञ्च समर्पयेत् । धार- यिल्खा सितं भस्म दर्पणायैः प्रपूजयेत् ॥ बलिं दत्वाऽथ पाद्याचैः गन्ध पुष्पैश्च पूजयेत् । जपस्तोत्रनमस्कारप्रदक्षिणपुरस्सरम् ॥ अष्टपुष्पिकयाऽभ्य- एँ विशेषार्येण पूजयेत् ॥ पराङ्मुखार्येणोद्वास्य शिवं सावरणार्दिकम् । काले शिवं । हृदि ध्यायन् अनीयात्तनिवेदितम् ॥

एवं संक्षिप्य कथितः शिवपूजाविधिक्रमः । विविच्य दर्शयिष्यामो नाति संकोचविस्तरम् । तत्र तावदाचमनमुच्यते । हीं शिरसेनमः । आजा नुपादा वामणिबन्धश्च पाणिं प्रक्षाल्य प्राङ्मुख उदङ्मुखोवा कुक्कुटा- सनस्थः पाणिद्वयं जानुनी अन्तर निधाय पाणिद्वयेऽपि कनिष्टिकादिषु