पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ शिवार्चनाञ्चन्द्रिकायाम् चास्तमिते खौ । पूजयेत्परया भक्त्या अष्टपुष्पविधानतः ॥ दारिद्राणां मनाथानां बालस्त्रीबालिशेषु च । भोगिनां व्याधिजुष्टानां तथा ध्याना- र्पितात्मनाम् ॥ शिवशास्त्रानुरक्तानां नानासिद्धिहितात्मनाम् । अनु रक्तविरक्तानां कथितासाऽष्टपुष्पिका'इति कालोत्तरवचनात् । भोगो राज्य" परिपालनम् । तद्दन्तो भोगिनः। तेषां राज्यपरिपालनं कुर्वतामियर्थः । राज्यपरिपालनेन बहुषु शिवस्थानेषु शिवभक्तानां गृहेषुचशिवपूजाप्रवर्तनेि 'न बहुपुण्यं लभ्यते । शिवशास्त्रानुरक्तानां तद्वयाख्यानतदध्ययननिरत नामित्यर्थः । शिवशात्रव्याख्यानेन हि लोके यथावत् शिवपूजाप्रवर्तनेन ‘बहु पुण्यं लभ्यते । तदध्ययनेन चाने स्त्रयं यथावद्हुकालपूजनेन बहुपुण्यं लभ्यतइति । कपिलापूजाविधिः ॥ । इति शिवपूजां समाप्य कपिलापूजां कुर्यात् । यथा कपिलां गाँ नन्दा सुभद्रासुरभि सुशीला सुमनस्संज्ञां पञ्चगोत्ररूपायै कापिलायैनमइति गन्धपुष्पादिभिरभ्यर्थे ‘सौरमेयि जगन्मात दैवाना मनृतप्रदे । गृहाण परदे प्रास मीप्सितार्थं च देहि मे’ इति ग्रासं दत्वा वन्दिताऽसि वासिष्ठेन विश्वामित्रेण बहुना । कपिले हरमे पापं यन्मया दुष्कृतं कृतमिति सं- प्राथै 'गात्रो ममाग्रतो नित्यं गावः पृष्ठत एव मे । गायो मे हृदयेचापि गवां मध्ये वसाम्यह' मिति जपेत् । एतं नरो जपेन्मन्त्री त्रिसंध्यं नियत शुचिः । विमुक्तस्सर्वपापेभ्य शिवलोकं प्रपद्यते ॥ परार्थालयदर्शनम् ॥ -- - - तनः परार्थालयसमीपस्थःपूजान्ते शिवालयं गत्वा तत्सेत्रमपि कुर्यात्