पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
शिवार्चनाचन्द्रिकायाम्

भिर्वणैस्सप्तवर्गाः । नववर्गाः क्रमादादित्यसोमबुधगुरुशुक्रांगारकशनिराहु- केतुरतरूपाः । माणिकवैडूर्यकपुष्यरागवज्ञप्रवाळ्गुळिकावलवैश्रितैः । गोमेतकैर्मरकतैश्च कृताऽक्षमाला श्लाध्या नवग्रहमयाखिलवर्णपूर्णा। एनाम क्षमालां हृत्पुण्डरीकमध्यागतदीपाकारपरमेश्वरप्रभारूपशब्दैः पराख्यशक्ति निस्सृतां विभावयेत् । तदशं मूलमन्त्रे नवरत्नमयकल्पलताने पुष्पात् विनिस्सृतं विभाव्य क्षकारं मेरुं कृत्वा ळकारादिक्रमेणाक्षमालायां मूल मन्त्रस्य गमागमौ विभावयेत् । तस्यांमन्त्रस्यारोहणभावनयां मन्त्रस्य शिरसि ळक्तरादिसहितवर्णान् विसर्जनीयसहितान् विन्यस्य अवरोहण- भावनायां मन्त्रस्य अकारादिवर्णान् बिंद्वन्तान्विन्यस्य जपकुर्यात् । एवं कृते शतं मन्त्रस्यावृत्तयो भवन्ति । तदनन्तरं षोडशस्वरवर्गस्पर्शवर्गपञ्च कान्तस्थवर्ग ऊष्मत्रर्गाष्टके क्रमेण मन्त्रं विन्यस्याष्टधा मन्त्रमावर्तयेत् । एवमष्टोत्तरशतशङ्कयजपः कृतो भवति । जपारंभकाले च मूलमन्त्रेण तस्य परदेवतां मणिना प्रभामिव समरसीभूतां मूलमन्त्रेणसह तदीयान- कारादिवर्णान् पीतकृष्णधूम्रपीतरत्र¢न तद्देवतारूपतया तरसमरसी- भूतान् ब्रह्मविष्णुरुद्रेश्वरसदाशिवांश्च विभावयेत् । हृकण्ठतालुभ्रमध्य ब्रह्मरन्धेषु क्रमेण नकारादिवौं स्सह ब्रह्मादीन्परित्यजेत् । अयमर्थ- स्सत्रोंऽपि प्राक् लिखितश्लोकेषु संक्षेपेणसूचितः । एवमाभ्यन्तराक्षमालया जप्तुमशक्तः प्रागुक्तक्रमेण जपारम्भकाले मन्त्रं मातृकाशक्त्यारूढं विभाव्य मन्त्रमातृकाक्षराणि विभाव्य केवलमेव मन्त्रं रुद्राक्षादिकृतत्राह्याक्षमालया गणयन् जपेत् ॥ तत्प्रकारः--उत्तमादिक्रमेणामरूक बदर चणकप्रमाणे वक्त्रस्त्रिव• त्रैश्चतुःपञ्चषट्सप्ताष्टनवदशैकादशवक्त्रैची एकसङ्यचक्रैर्भिनसञ्चयव त्रामिश्रितै रष्टोत्तरसह्यै श्चतुःपञ्चाशत्सह्यै स्सप्तविंशतिसह्यैर्वा सुत्रर्णरज-