पृष्ठम्:शिवलीलार्णवः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
चतुर्थः सर्गः ।


चरन्तो जन्तवो यत्र जाता वनचराः पुरा ।
तदेवासीद् वनचरं तत्क्षणं तस्य शासनात् ॥ ८९ ॥
षण्णामप्यध्वनामन्ते शाश्वतं पद्मैश्वरम् ।
इति श्रुत्वैव सिद्धान्तमध्वान्तं तदयं व्यधात् ॥ ९० ॥
अप्यान्तरतमो हर्तुर्बाह्ये तमसि का क्षमा ।
लाभोऽयं यच्छिवादारादियन्तं कालमास्त तत् ॥ ९१ ॥
घातंघातमिह व्याघ्रान् ग्राहंग्राहं शुभास्त्वचः ।
अहरन् वस्त्रदुर्भिक्षं किङ्करास्तस्य शाङ्करम् ॥ ९२ ॥
संवर्ते तत्र सत्त्वानां समगृह्यन्त कुञ्जराः ।
सर्व एव शुभः कालः स्वरूपं यदि सुन्दरम् ॥ ९३ ॥
सालमभ्रङ्कषं चक्रुः सालं छित्वा सहस्रशः ।
किं साध्यं बहुभिः क्षुद्रैर्वरमेको महोच्छ्रितः ।। ९४ ।।
वप्रक्रियासु निर्मग्नैर्दन्तैरमरदन्तिनाम् ।
शृङ्गेषु तस्य सालस्य गवाक्षा विप्रतेनिरे ॥ ९५ ॥
परिखां स्वनतस्तत्र प्रविष्टानारसातलम् ।
के यूयं सगराणामित्यन्वयुञ्जत पन्नगाः ॥ ९६ ॥
परिखारन्ध्रतस्तत्र पाताळाजाह्नवीजलम् ।
जलयन्त्रादिवोत्तस्थौ भूम्यन्तं भूतलाच्युतम् ॥ ९७ ॥
भगिनीं भगिनीशं च द्रष्टुं प्राकारकैतवात् ।
उन्ममज्जेव मैनाकः परिखासागरात् ततः ॥ ९८ ॥
राजसिंहैर्नरव्याघ्रैः पूरितं भटकुञ्जरैः ।
पुरं यथापुरं जज्ञे का तस्यान्योपमा भवेत् ॥ ९९ ॥
छिन्दद्भिस्तद्वनं तत्र शेषितं यत् क्वचित्क्क्वावत् ।
तान्येव तस्योद्यानानि सर्वतः प्रचकाशिरे || १०० ।।



१. वनचरम् अरण्यचारि अथ च वनभूतपूर्वम्. २. तत्त्व-भुवन-मन्त्र-वर्ण-कलारूपाणां
षण्णाम्. ३. अध्वान्तम् अध्वनामन्तम् अथ च ध्वान्तशून्यम्.



+ 'हर्तु' इति कपुस्तके पाठ:.