पृष्ठम्:शिवलीलार्णवः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
शिवलीलार्णवे


वीथिका उत्सवार्था या विहिता विश्वकर्मणा ।
चतुर्णामपि वर्णानां ता एवासन् पृथक्पृथक् ॥ १०१ ॥
पाण्डरैर्भवनैः पूर्णे प्राकारे धाम शाम्भवम् ।
मध्येमौक्तिकताटङ्कं रेजे रत्नमिवांर्पिताम् ॥ १०२ ॥
दिशि चोत्तरपूर्वस्यां देवदेवस्य मन्दिरात् ।
निर्मलं भवनं राज्ञो निर्ममुस्तस्य शिल्पिनः ॥ १०३ ॥
प्रासादः शुशुभे तत्र भवने धरणीपतेः।
भक्त्या महेशितुर्वृद्धः प्रसाद इव निर्मलः ॥ १०४ ॥
दिव्यैः सुधामयैर्मेघैर्देवो जीमूतवाहनः ।
नगरं सेचयामास नवीनं त्रीण्यहानि सः ॥ १०५ ॥
मधुरोदकसंसिक्ता मधुरेयं महापुरी ।
इत्यश्रूयत तत्रत्यैर्दिव्या वागशरीरिणी ॥ १०६ ॥
दुर्गा गणेशबटुकेश्वरमातृवर्गै-
रध्यासितां सुविहितेषु निजाम्पदेषु ।
सद्यः प्रवर्त्तितमहेश महोत्सवान्ते
पाण्ड्यो विवेश नगरी मधुरां प्रहृष्टः ॥ १०७ ।।
अर्थैरर्थिंजनाञ्छृतैः श्रुतवतः सम्माननैर्बान्धवान्
सेवाभिर्महतो निसर्गकरुणावत्या स भृत्यान् दृशा ।
आत्मानात्मविवेकतो गिरिशमप्याराधयन् मेदिनीं
भूपालः कुलशेखरोऽत्र बुभुजे सप्तार्णवीवेष्टिताम् ॥ १०८ ॥
इति महाकविश्रीनलिकण्ठदीक्षितप्रणीते
शिवलीलार्णवे चतुर्थः सर्गः ।