पृष्ठम्:शिवलीलार्णवः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
शिवलीलार्णवे


कृतनित्यविधौ बिलम्बमाने शिवसभ्यर्चयितुं क्षणं सुरेशे ।
कमलैरुदभावि जातरूपैः कमलिन्यामतिसौरभैरमुष्याम् ॥ ६७ ॥
स्वयमाहरदर्चनाय शम्भोः सुरभीण्यम्बुरुहाणि काञ्चनानि ।
कनकाम्बुजिनीति नाम तस्याः कलयन् विस्मित एष सस्मितश्च ॥ ६८ ॥
क्व नु काञ्चनता क्व सौरभं तद् दिवि सङ्कल्पभवेषु पङ्कजेषु ।
प्रभवत्यखिलं हि निर्जराणां ध्रुवमाध्यासिकतत्तदर्थवन्नः ॥ ६९ ॥
सलिलैरतिपावनैस्तदीयैः कमलैरप्यतिसौरभैर्महेन्द्रः ।
परिपूज्य शिवौ गुरूक्तरीत्या प्रणिपातैः परितोषयाम्बभूव ॥ ७० ॥
अपि गद्गदया प्रमोदबाप्पैरपि सारोज्झितयातिसम्भ्रमेण ।
पितरौ प्रियकप्रियौ सुरेशः म गिरानर्च वचःपथव्यतीतौ ॥ ७१ ॥
भुवि सुन्दरमास्पदं तवैतच्छिवलिङ्गं तु ततोऽपि सुन्दरं ते ।
अपि सुन्दरमेव मुन्दराणामभिधान वचनामृतं त्वदीयम् ॥ ७२ ॥
समसेविषि मन्दरे हिमाद्रौ कलधौताचलकन्दरेऽपि च त्वाम् ।
विदितन्तु परं न विश्वपारं किमु तत्रैवमसीति कापि शङ्का ॥ ७३ ॥
न मखैर्न जपेन होमदानैर्न तपोभिर्विविधैश्च लभ्यते यत् ।
तदिदं तव सन्निधानभाग्यं तरुभिः कैरपि भुज्यते निरीहैः ॥ ७४ ॥
निहता दनुजा जिता त्रिलोकी त्रिदिवे चाधिकृतं ततः किमासीत् ।
इह ये मृगपक्षिणो न हीमानपि नीराज्य विमोक्तुमर्हता मे ॥ ७५ ॥
अपवृज्य किमीश ! माधयेयं भवदानन्दमवाप्नुयां तदाहम् ।
किमितोऽप्यधिकः स यो ममासावुचितः स्वाम्युपलम्भजः प्रमोदः ॥ ७६ ॥
जडमेव जगत् तव स्वमासीदजडा: केचन मादृशोऽपि जीवाः ।
अतिवाङ्ममनसं भवन्तमेव प्रतिपन्नास्तु वयं प्रशासितारम् ॥ ७७ ।।
वचनावसरो न लभ्यते नस्त्वयि मीनाक्षि ! शिवाविनाकृतायाम् ।
इति देवि! पृथक् कृतासि किञ्चित् तमिमं मा कुरु मानसेऽपराधम् ॥ ७८ ॥
गिरिराजकुमारिकामपि स्वं विपिनेष्वद्रिषु चानुवर्त्तमानाम् ।
भवतीं प्रियकप्रियेऽनुरोद्धुं स्वयमध्यास्त शिवः कदम्बमूलम् ॥ ७९ ॥



१ विश्वपारं सर्वोत्तीर्ण स्थानं मुक्तकगम्यं कैलासाख्यमित्यर्थः