पृष्ठम्:शिवलीलार्णवः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
तृतीयः सर्गः ।


अमृताशनजातिमात्रजेतर्यलमस्त्राणि न तत्र दैवतानि ।
परिवृत्त्य पतेयुरासुराणि प्रबलं यूथपतिं तमेत्य सद्यः ॥ ३ ॥
निकृतिं शरणं वृणीमहे चेन्नियमादापदियं क्षमा तरीतुम् ।
निर्ऋतिं परिपृच्छतामुमर्थं स हि नः पुण्यजनेनु सम्प्रतीतः ॥ ४ ॥
असुरा हि भवेन युध्यमानाः काटेनेति यदि स्थितं मतं वः ।
असुरत्वमपेक्षितं विराजः सुुरभावादतिगर्हितादमुष्मात् ॥ ५ ॥
सहि सम्प्रति सागरान्तरीपे क्लचिदालम्ब्व्य निराश्रयं समाधिम् ।
अविशङ्कितमास्थितस्तवत्यां सुखजय्यो यदि रोचते भवद्भ्यः ॥ ६ ॥
इति वादिनि वल्लभे सुराणामनुजज्ञुर्हरिदीश्वराः सहर्षन् ।
प्रकृतिर्ह्यपथे रुचिः प्रजानां किंमुत स्वामिनि तादृशेडपि लब्धे ॥ ७ ॥
स हि यत्र तपश्चकार वृत्रस्तदनुप्राप्य तपोवनं महेन्द्रः ।
परमेण समाविनोपविष्टं पविना तं विनिपातयाम्बभूव ॥ ८ ॥
कृतकृत्यममुं निवर्तमानं कियदप्यप्रतिसन्दधानमेनः ।
विकृता वपुषा विकीर्णकेशी सममेवानुससार वृत्रहत्या ॥ ९॥
पुनरेत्य यथापुरं सुधर्मी पुरुहूतः स्तुवतो विसृज्य देवान् |
अवरोधमभीप्सुरालुलोके विशतीं स्पेन सहैव वृत्रहत्याम् ॥ १० ॥
अवकीर्य पविं विकीर्य केशानसमालोच्य च कृत्यमाप्तवर्गेः ।
स तयानुगतः पलायत द्राक् समरेप्यप्रतिमल्लप्साहसोऽपि ॥ ११ ॥
अपथं तदभीक्ष्णमादृतं यैरपि साक्षादुपदिष्ट मादितश्च ।
जहसुः प्रथमं त एव शक्रं प्रकृतीनां प्रभवत्स्वयं स्वभावः ॥ १२ ॥
विपिनाद्विपिनं गिरिं गिरिभ्यो जलराशेर्जलराशिमन्ततश्च ।
जगतो जगदप्ययं प्रधावन्मुमुचे नैव तया धियेव जीवः ॥ १३ ॥
निपुणं स पुरन्दरो विलिल्ये सरसि क्वापि सरे. जनाळतन्तौ
शतशः समुपात्तसंप्ततन्तोरवलम्बाय बभूव कोऽपि तन्तुः ॥ १४ ॥
अवलोक्य तदन्तरं चिकीर्षन् नहुषो नाम नृपोऽधिकारमैन्द्रम् ।
अनियन्तृकताविषादमग्नैरनु मेने कथमप्यमर्त्यलोकैः ॥ १५ ॥
१. सततन्तुशब्दः ऋतौ सप्तसङ्ख्याकतन्तुषु च.