पृष्ठम्:शिवगीता.djvu/5

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



[ अध्यायः १
शिवगीता

न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा ।
कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥ २ ॥
रामाय दण्डकारण्ये पार्वतीपतिना पुरा ।
या प्रोक्त्ता शिवगीताख्या गुह्यागुह्यतमापि सा ॥ ३ ॥


भावः कैवल्यं ब्रह्म तदेव मुक्तिः शुद्धा चासौ कैवल्यमुक्तिश्च सा तथोक्ता तां ददाति तत्तथा । विशेषणद्वयेन शोकनिवृत्तिरानन्दावाप्तिश्च प्रयोजनमस्य शास्त्रस्येति सूचितम् । शुद्धकैवल्येत्यत्र शुद्धपदेन सारूप्यादिसातिशयमुक्त्तीनां निरासः सूचितः । अनुग्रहान्महेशस्येत्यनेन स्वस्य सूतत्वेऽपि मोक्षशास्त्रोपदेशेऽधिकारः सूचितः । यद्यपि भिषजः कर्मेति तद्धितेऽणि आदिवृद्धया भाव्यं तथापि "केवलमामक" इति सूत्रे निपातनाद्गुणः । तथाच निघण्टुः—"भेषजौषधभैषज्यान्यगदो जायुरित्यपि" इति ॥ १ ॥ कर्मणेति । "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः" । "ज्ञानादेव तु कैवल्यम्" इतीममर्थं मनसि निधायाह । कर्मणां श्रौतस्मार्तादीनामनुष्ठानैर्मर्त्यः मरणधर्मा देवादिमनुष्यान्तः कश्चिदपि कैवल्यं मोक्षं न लभते । दानैः कल्पोक्त्तैर्गोभूम्यादिवितरणैः । तपसापि वा कृच्छ्रचान्द्रायणादिरूपेण न लभते । कर्मादीनां स्वर्गफलकत्वान्निष्कामतयानुष्ठितानां चित्तशुद्धिद्वारा विविदिषाफलकत्वात् । तर्हि मोक्षः केन साधनेन भवतीत्याशङ्कायामाह-किंत्विति । इतरनिरपेक्षज्ञानेनैव "तमेव विदित्वातिमृत्युमेति नान्यः पन्था अयनाय विद्यते" इत्यादिश्रुतेः ॥ २ ॥। गुरूत्तमशिष्योत्तमसंवादतया प्रवृत्तमिदं गीताशास्रमुपनिषद्वाक्यमेवेति प्रशंसन्नाह—रामायेति । सा गीता मया युष्मभ्यमुपदिश्यते । सा केत्याकाङ्क्षायामाह । पुरा पूर्वं दण्डकारण्ये पार्वतीपतिना शिवेन रामाय या गीता प्रोक्ता सा । गुह्येति । अतिरहस्यभूतापि । अपिना गुरोर्वात्सल्यं सूचितम् । शिवपदेनाख्यापदेन च सर्वासां गीतानां मध्ये अस्याः श्रेष्ठत्वं सूचितम् ॥३॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/5&oldid=293413" इत्यस्माद् प्रतिप्राप्तम्