पृष्ठम्:शिवगीता.djvu/6

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



बालानन्दिनीव्याख्यासहिता ।

 यस्याः स्मरणमात्रेण नृणां मुक्तिर्धुवा हि सा ।
पुरा सनत्कुमाराय स्कन्देनाभिहिता हि सा ॥ ४ ॥
सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमाः ।
मह्यं कृता(पा)तिरेकेण प्रददौ बादरायणः ॥ ५ ॥
उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया ।
सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥ ६ ॥


तदेव श्रेष्ठत्वं संप्रदायशुद्धिपूर्वकं सूचयितुं स्वगुरुपरम्परामाह-यस्या इति । यस्याः शिवगीतायाः स्मरणमात्रेण तदर्थध्यानमात्रेण । अस्यां शिवगीतायां शुद्धबुद्धमुक्तस्वरूपं ब्रह्मैवाध्यारोपापवादाभ्यां प्रतिपादितमस्तीति ध्यानमात्रेणेत्यर्थः । नृणामिति बहुवचनेन देवादीनामपि सा प्रसिद्धा । ध्रुवा निर्बाधा ब्रह्मस्वरूपभूतेत्यर्थः । हि निश्चयेन मुक्तिर्भवतीति शेषः । सा शिवगीता सनत्कुमाराय स्कंन्देन पुरा अभिहितोपदिष्टा । हिशब्देन सर्वगीताश्रेष्ठत्वं द्योतयति॥ ४ ॥ सनत्कुमार इति । हे मुनिषु सत्तमाः श्रेष्ठाः, इत्यनेन संबोधनेन भवादृशाः सर्वेऽत्राधिकारिण इति ध्वनयति । बादरायणो व्यासः कृपातिरेकेण दयाया अतिशयेन मह्यं प्रददौ । मह्यमिति संप्रदानचतुर्थ्या ब्रह्मविद्याप्रदानस्य सर्वदानोत्तमत्वं सूचितम् । कृपातिरेकेणेत्युक्त्या गुरुशुश्रूषया स्वस्मिन् गुरुप्रसादः सूचितः । "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥" इति श्रुतेः, "तद्विद्धि प्राणिपातेन परिप्रश्नेन सेवया” इति स्मृतेश्च ॥ ५ ॥। उक्तं चेति । तेन प्रसिद्धेन मद्गुरुणा गीतोपदेशानन्तरमुक्तं च । किमुक्तं तदेवाह-कस्मैचिदिति। इदं शास्त्रं कस्मैचिदनधिकारिणे त्वया न दातव्यम् । अन्यथा मद्वाक्यस्यापरिपालनेनानधिकारिभ्योऽपि दाने क्रियमाणे देवा इन्द्रादयः क्षुभ्यन्ति रुष्टा भवन्ति । शपन्ति च । दातारं वक्तारमिति शेषः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/6&oldid=293592" इत्यस्माद् प्रतिप्राप्तम्