ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव राजेन्द्र यजन्त्यविधिपूर्वकम् ॥ ३ ॥
यस्मात्सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते ।
सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रद: ॥ ४ ॥
येनाकारेण ये मर्त्या मामेवैकमुपासते ।
तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे ॥ ५ ॥
विधिनाऽविधिना वापि भक्तया ये मामुपासते ॥
तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः ॥ ६ ॥
अपि चेत्सुदुराचारो भजते मामनन्यभाकू ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ७ ॥
स्वजीवत्वेन यो वेत्ति मामेवैकमनन्यधीः ।
तं न पश्यन्ति पापानि ब्रह्महत्यादिकान्यपि ॥ ८ ॥
तत: केिं तत्राह-ये त्विति । ये भक्ता अन्यदेवान्यजन्ते तेऽपि मामेव यजन्ति । किंतु अविधिपूर्वकं। अहमेव सर्वान्तर्यामी फलप्रद इति मत्स्वरूपमज्ञात्वेत्यर्थः । अतएव फलाल्पतेति भावः ।। "अन्तवक्तु फलं तेषां तद्भवत्यल्पमेधसाम्' इति स्मृतेः ।। ३ । यस्मात्कारणान्मत्तः मत्सकाशान्न व्यतिरिच्यते तस्मादहमेव फलप्रदः ॥ ४ ॥ येनेतेि । उक्तलक्षणेन विष्ण्वाकारेण शिवाकारेण गणेशसूर्याद्याकारेण वा एकमेव मां य उपासते तेभ्यस्तेनैवाकारेण वाञ्चितं ददे प्रयच्छामि प्रसन्नः सन् । ५ । विधिनेति । विधिना सर्वान्तयमेिदृष्ट्या । अविधिना तत्तद्देवतादृष्ट्या वापि। अत्र विधिशब्दस्यायमेवार्थः । यजन्त्यविधिपूर्वकमित्युक्तत्वात् ।। ६ । भक्तेर्माहात्म्यमाह--अपि चेदिति । पूर्वं सुतरां दुराचारोऽपि पश्चात्तापेन तप्तः सन् मां भजते । अनन्यभाक् एकनिष्ठः सः साधुरेव पुण्यवानेव मन्तव्यः'। । यत: कारणात्सः सम्यग्व्यवसितः, उत्तमनिश्चयवान् जात’ इत्यर्थः ॥ ७ ॥ स्वजीवत्वेनेति । त्वमेवाहं त्वत्प्रतििबिम्बत्वादिति मामेवैकं----