पृष्ठम्:शब्दापशब्दविवेकः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ शब्दापशब्दविवेके


४२. बौद्धमतारातिनो यतिनः श्रीगोविन्दस्य शिष्यः स्वनामधन्यः श्री- शङ्करः साध्वनुससार गुरुसरणिम् । ४३. नियते ! त्वमेव वद निर्घृण ! किमित्याजन्म दारिद्र्यसख एव विनिर्मितोऽस्मि । ४४. अहं हरे ! त एवाऽस्मि । सपदि समुद्धर मां शुचः । ४५. इयमेका वीणायास्तन्त्री विच्छिन्नेति समाधेया। ४६. सुतनु ! जहिहि मानं पश्य पादानतं माम् । ४७. हे उशनः, हे उशन, हे उशनन् ! ब्रूहि ब्रूहि यत्तवेष्टम् । अयमहं तत्सम्पादयामीति होवाच वृषपर्वा दैत्यराट् । ४८. हे क्रोष्ट: ! सम्प्रति विरम । किमिति सर्वरात्र मुधा विरौषि ? ४९. मित्रेण गोप्त्रा वनानि पर्यटन्नहं न मनागप्यबिभयम् । ४२. अरातिशब्द इकारान्तः, तेन षष्ठयामरातेरिति भवति । यति- शब्दश्च इकारान्त इन्नन्तश्च । तेन यतिन इत्यपि न दोषाय । ४३. नियतिः स्त्रीति तद्विशेषणेन निर्घृणशब्देनापि स्त्रीलिङ्गेन भवितव्यम् । तेन संबुद्धौ निर्घृणे इति युज्यते रूपम् । ४४. तवैवास्मीति साधु । न चवाहाहैवयुक्त (८।१।२४) इति एवयोगे युष्मदस्ते इत्यादेशो निषिध्यते । ४५. तन्त्रीरिति साधु । अत्र ईकार औरणादिको न तु स्त्रीप्रत्ययः । ४६. ऊकारान्तस्तनूशब्दोप्यस्ति । अम्बार्थनद्योर्ह्रस्वः । ह्रस्वविधान- सामर्थ्याद् गुणो न । समासान्तविधेरनित्यत्वाद् नद्यृतश्चेति कपि सुतनूक इति च न भवति । ४७. उशनसः संबुद्धावपि पक्षेऽनङ इष्यते । न ङिसम्बुद्धयोरिति नलो । प्रतिषेधोऽपि पक्ष इष्यते । तेन त्रैरूप्यं भवति । तथा चोक्तम् – सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्य- दन्तम् इति । ४८. हे क्रोष्टो इत्येव साधु । तृज्वत्क्रोष्टुः इति सर्वनामस्थानेऽसम्बुद्धौ प्रवर्तते । ४९. गोप्त्रेति मित्रेणेत्येतद्विशिनष्टि । तेन गोप्तृणेति युज्यते । तृतीया- दिषु भाषितपुंस्कं पुंवदित्यनेन पक्षे पुंवद्भावे गोप्त्रेत्यपि साधु ।