पृष्ठम्:शब्दापशब्दविवेकः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नाम्नामथिकार: २५


५०. यती व्रती चापि पतिव्रता च वीरश्च शूरश्च दयापरश्च । त्यागी च योगी च बहुश्रुतश्च सुसङ्गमात्रेण दहन्ति पापम् ।। ५१. अत्यासत्तिविनाशाय त्वतिदूरं तु निष्फलम् । सेवा च मध्यभावेन राजबह्निगुरुस्त्रियाम् ।। ५२. रे रे दुर्जनाग्रणे बाढमनियन्त्रित ते तुण्डम् । विरमातः परं वाक्प्रसङ्गात् । ५३. शक्यार्थपरिग्रहेणान्वयानुपपत्तिं प्रतीत्य शक्याथसम्बन्धिनमर्था- न्तरं स्मरति । ५४. पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः (मनु. १।४३) । ५५. सा कदाचित्स्वपत्युर्गृहद्वारि पतिता मुमूर्षुरदृश्यत । ५६. महामहिम ! भिक्षुकस्य मम कोऽयमुपहासः । ५७. इदमाह पुरास्माकं भगवान्विश्वसृपतिः (भा० पु० ४।२४।७२) । ५०. यतीत्यपि साधु । इन्नन्तोऽपि यतिन् इति शब्दोस्ति । ५१. षष्ठ्यां स्त्रीणामित्येव साधु । नेयडुवङ्स्थानावस्त्री इत्यत्र स्त्रीपर्यंदासात् स्त्रीशब्दस्य नदीसंज्ञायास्तादवस्थ्याद् आमो नुट् । ५२. सम्बुद्धौ ‘दुर्जनाग्रणे' इत्यसाधु । अग्रणीरिति क्विबन्तं शब्द- रूपम् । तत्र ह्रस्वस्याप्राप्तेः । ह्रस्वस्य गुणविधिरिति तदभावे तदभावः सुतरां सिद्ध इति 'दुर्जनाग्रणीः' इत्येव साधु । ५३. शक्यार्थसम्बन्धि इति तु वक्तव्यम् । इदं हि अर्थान्तरमिति नपुंसकं विशिनष्टि । ५४. दन्तशब्दसमानार्थो दच्छब्दः प्रकृत्यन्तरमस्ति । तस्येदं प्रथमा- बहुवचने रूपमिति निर्दोषं वचः । ५५. स्वपतेरिति वक्तव्यम् । समासे घिसंज्ञाविधानात् । ५६. नलोपः प्रातिपदिकान्तस्येति नलोपे प्राप्ते न ङिसम्बुद्ध्योरिति तन्निषेधान् ‘महामहिमन्' इत्येव साधु । ५७. व्रश्चभ्रस्जसृजेति सूत्रेण सृजेजकारस्य पदान्ते षविधानात् विश्व- सृट्पतिरिति साधु ।