उपग्रहाधिकारः १०५
२५. केयं भिक्षाव्यसनिनी१ कुलाटेति सोऽञ्जसाऽविदत् ।
२६. वस्त्रान्तं शठ ! मुञ्च मुञ्च शपथैः किं धूर्त ! निर्बन्धसे ।
२७. आत्मोपम्येन मनुजं व्यापृण्वानं यतोऽबुधः (भा० पु० १।११।३७) ।
२८. कुचतस्त्रस्यति वदनं वदनात्कुचमण्डलं त्रसति ।
२९. न विदीर्ये कठिनाः खलु स्त्रियः (कु० ४।)।
उपग्रहाधिकारो द्वितीयः ।
१. किमित्यज्ञवदनुकुरुषे परेषाम् ? सदसती विविच्य प्रवर्तस्व ।
२. देवदत्तो विशिखातो२ विशिखां विपणीतश्च विपणीं३ संचरते।
३. वसुमित्रोऽनवग्रहं४ ब्रूते न च विरमते । अप्रसक्तं च बहु भाषते ।
४. एहि, आरामे४त्रारमामहे ।
२५. विद् ज्ञाने इति अदादिः । तेन अवेत् इति लङि रूपं साधु ।
२६. बन्ध बन्धने इति क्र्यादिः । तेन निर्बध्नासीति रूपम् ।
२७. व्याप्रियमाणमित्येव साधु । पृङ् इति तुदादिः । व्याङ्पूर्वस्यास्य
शानचि व्याप्रियमाणमिति रूपम् ।
२८. वा भ्राश भ्लाशेत्यादिना शास्त्रेण त्रसे: शपः श्यन्वा । तेन त्रसति
त्रस्यतीत्युभे रूपे इष्टे ।
२६. विदीर्ये इत्यस्मिन्विषये (पृ० ६६) सप्तमे वाक्य उक्तः समाधिः ।
इति गणविवेचनम्
१. अनुपराभ्यां कृत्र इति परस्मैपदेन भवितव्यम् । अनुकरोषीत्येव
साधु ।
२. समस्तृतीयायुक्तादिति श्रूयमाणे तृतीयायोगे सम्पूर्वाच्चरते-
रात्मनेपदं विहितम् । अत्र च तृतीयायोगो न श्रूयत इत्यात्मनेपद-
स्याऽप्रसङ्गः । संचरतीत्येव साधु ।
३. व्याङ्परिभ्यो रम इति विरमतीत्येव साधु ।
४. आरमाम इत्येव साधु । उक्तो हेतुः ।
१. या शीलमभिन्दती कुलान्यटति सा कुलाटा । अत्र शकन्ध्वादित्वात् पररूपं
न भवति ।
२. रथ्यायाः। ३. पण्यवीथिकाम् ।
४. अनर्गलम् । ५. उद्याने।