पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

52

शाब्दनिर्णयः ।

धनताज्ञानमपेक्षते । यदि वा बुद्धिपूर्वकारिणः कृत्युपक्षेपयोग्यता कार्यता, तदेष्टता तत्साधनता वा सेतीष्टादेरेव राग इत्युक्तं भवति । यदि तृतीयमेव किञ्चित् कार्यबुद्ध्यालम्बनं कल्प्येत, तथापि हितादेरेव रागः कार्यताबुद्धिश्चेत्येककारणजन्यता तयोरिति न रागस्य हितादिः कारणकारणम् । निष्पन्नेऽपि कदलीफलादौ हितसाधने भक्षणविशेषणतया रागविषयीकाराद्, अन्यथा हितादिज्ञानाद् राग:। रागज्ञानाच्च कार्यताज्ञानमिति कल्पनायामप्यविशेषात् । ननु हितसाधनतावगमः कार्यताज्ञानाधीन: किं न स्यात्। कार्यतायां प्रमाणान्तराभावात् । साधनतायां तु फलप्रभवान्यथानुपपक्तिरुक्ता । फले त्वानुकूल्यं प्रत्यक्षसिद्धम् । यत्र च हिततत्साधनतावगमः, तत्रैव कार्यबुद्धिनियमात् तदेव तद्धेतुरिति कल्प्यते । अतः प्रतिपत्तुः प्रवृत्तिलिङ्गेन प्रवर्तकं रागमनुमाय तस्य च स्वसाक्षिकतया शब्दानपेक्षत्वात् तद्धेतौ हितसाधनताज्ञाने शब्दसामर्थ्यं कल्प्यत इति रमणीयम् ।। ५५ ॥

किञ्चेदं कार्यबुद्धिरवलम्बत इति परीक्ष्यते—

न नियोगं न निष्पाद्यं कृतिरक्तं न कार्यधी:।

निरुपाधिकसाध्यं वा विविक्तं कालतोSपि न ॥ ५६॥

आलम्बते न चापूर्वं न प्रधानं कृतिं प्रति।

प्रवर्तकत्वान्नाभावविरोधि व्यभिचारतः ॥ ५७॥

व्यभिचारत इति सर्वत्र सम्बध्यते । न तावत् कार्यबुद्धिर्नियोगमवलम्बते । नियोगो हि नाम चेतनस्य प्रधान-